________________
श्रीजिनदत्तसूरिरचितं
सुगुरुपारतन्त्र्यम् । मयरहियं गुणगणरयणसायरं सायरं पणमिऊणं । सुगुरुजणपारतंतं उवहि व्व थुणामि तं चेव ॥ १ ॥ निम्महियमोहजोहा निहयविरोहा पण?संदेहा । पणयंगिवग्गदावियसुहसंदोहा सुगुणगेहा ॥२॥ पत्तसुजइत्तसोहा समत्तपरतित्थजणियसंखोहा । पडिभग्गलोहजोहा दंसियसुहम(मह)त्थसत्थोहा ॥ ३ ॥ परिहरियसत्तवाहा यदुहदाहा सिवंबतरुसाहा । संपावियसुहलाहा खीरोअहिणु व्व अगाहा ॥४॥ सुगुणजणजणियपुजा सज्जो निरवज्जगहियपव्वज्जा । सिवसुहसाहणसज्जा भवगुरुगिरिचूरणे वजा ॥५॥ अजसुहम्मप्पमुहा गुणगणनिवहा सुरिंदविहियमहा । ताण तिसंझं नामं नामं न पणासए जियाणं ॥६॥ पडिवजियजिणदेवो देवायरिओ दुरंतभवहारी । सिरिनेमिचंदसूरी उज्जोयणसूरिणो सुगुरू ॥ ७ ॥
संस्कृतच्छाया। मद(क)रहितं गुणगणरत्नसाग(क)रं साद(त)रं प्रणम्य । सुगुरुजनपारतन्त्र्यमुदधिमिव स्तवीमि तदेव ॥१॥ निर्मथितमोहयोधा निहतविरोधाः प्रणष्टसन्देहाः । प्रणताङ्गिवर्गदापितसुखसन्दोहाः सुगुणगेहाः ॥ २ ॥ प्राप्तसुयतित्वशोभाः समस्तपरतीर्थजनितसंक्षोभाः। प्रतिभग्नलोभयोधा दर्शितसूक्ष्मार्थ(सुमहार्थ)शास्त्रौघाः ॥३॥ परिहृतसत्त्वबाधा हतदुःखदाहाः शिवाम्रतरुशाखाः । सम्प्रापितसुखलाभाः क्षीरोदधिरिवागाधाः ॥ ४ ॥ सुगुणजनज नितपूजाः सद्यो निरवद्यगृहीतप्रव्रज्याः । शिवसुखसाधनसज्जा भवगुरुगिरिचूरणे वज्राः॥ ५॥ आर्यसुधर्मप्रमुखा गुणगणनिवहाः सुरेन्द्रविहितमहाः । तेषां त्रिसन्ध्यं नाम नाम न प्रणाशयति जीवानाम् ॥ ६ ॥ प्रतिपन्नजिनदेवो देवाचार्यो दुरन्तभवहारी। श्रीनेमिचन्द्रसूरिरुद्योतनसूरिः सुगुरुः ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org