________________
[ जिनदत्तसारावरचितं
एकत्वे गुणमाह-- कजउ करइ बुहारी बद्धी सोहइ गेहु करेइ समिद्धी। जइ पुण सा वि जुयं जुय किज्जइ ता किं कज्ज तीए साहिज्जइ ? ॥ २७ ।। [ कार्यकं करोति बहुकरी बद्धा शोध(भ)यति गेहं करोति समृद्धिम् । यदि पुनः साऽपि युतयुता क्रियते
ततः किं कार्य तया साध्यते ? ॥ २७ ॥] व्या०-कार्यकं पुजकं करोति बहुकरी प्रमार्जनी बद्धा शोधयति शोभयति वा गेहं करोति समृद्धिम् । यदि पुनः साऽपि युतयुता पृथग्भूतैकैकतृणा क्रियते, ततः किं कार्य तया साध्यते निष्पाद्यते ? न किञ्चित् । एवमेव कुटुम्बवासे उपनयो योज्यः ॥ २७॥
माता-पित्रादिभक्तस्य गुणमाह--- पुणवसु हत्थि चडइ सो चित्तह सोमु सुरु पुत्तु वि मावित्तह । जो किर चित्तह मज्झि न पविसइ जेहह मूलि सु कहि किव होसइ ? ॥ २८ ॥ [ पुनर्वसु हस्ते चटति सौचित्यस्य ( स चित्रायाः ) सौम्यः(मः) शू(सू)रः पुत्रोऽपि माता-पित्रोः । यः किल चित्तस्य (चित्राया) मध्ये न प्रविशतित
ज्येष्ठानां(या) मूले स कथय कथं भविष्यति ? ॥ २८ ॥] ___ व्या०- पुनर्भूयोऽपि वसु द्रव्यं हस्ते करे चटति आरोहति सौचित्यस्य उचितवृत्तिप्रधानस्य । सौम्यः प्रशान्तात्मा सूरस्तेजस्वी पुत्रस्तनयः स चित्ते मातापित्रोरपि आस्तामन्यस्य प्रायः सर्वस्य गुणप्रियत्वात् । यः किल चित्तमध्ये न प्रविशति चित्तं नाव यति माता-पित्रादीनां ज्येष्ठानां महतां पुरुषाणां मूले आदौ स कथय त्वमेव ब्रूहि कथं भविष्यति न कथञ्चित् उपायाभावात् , जनानुरागप्रभवत्वात् सम्पदाम् । अन्यः प्रतीयमानोऽर्थः-पुनर्वस्वोस्तारकयोर्हस्ते चटति चित्रायां सोमश्चन्द्रः, सूरः सूर्यः, पुत्रोऽपि सोमस्य बुधः, सूरस्य शनिः, “ मावित्तह'त्ति विशाखासु यः किल चित्रामध्ये न प्रविशति । ज्येष्ठायां मूले च स कथय कथं भविष्यति ? न कथञ्चित् , पूर्वानारोहे उत्तरानारोहात् । तदयमत्र तात्पर्यार्थः-ग्रहा अपि क्रमेणैव नक्षत्राण्यारोहन्ति, नाक्रमेण; अनेनैव दृष्टान्तेन पुरुषा अपि क्रमेणैव सम्पदमारोहन्ति, नाक्रमेण । अतो न तदप्राप्तौ यथाकथञ्चिदाकुलत्वं युज्यत इति भावः ॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org