________________
१२२
१९ कुपथपतितन लोकप्रवाहपतितत्वात् सूत्रार्थाज्ञत्वात् तन्निवारक गीतार्थानां च मारणम्। २० , शास्त्रेण विचारयंतो धार्मिकजनस्य शस्त्रेण विदारणम् । तद्विधलोकपरिकरि
तत्वात् गीतार्थस्तत्परिहरणम् । २१-२२ कुपथपतितस्य गीतार्थानां च विरुद्धा चेष्टा ।
कुपथपतितैर्विधिचैत्यग्रहणे तत्राविधिकरणे च प्रवर्तनम् । नरपतिपक्षपातेनाविधिकारिभ्यो विधिचैत्येष्वर्पितेष्वपि प्रहरणधारिष्वपि तैः सह धार्मिकानां विधिं विना कलहाभावः ।
विधिपथप्रपन्नानां प्रवृत्तिः २५-३९ सुगुरु-देवपदभक्तानां पञ्चपरमेष्ठिस्मारकानां धार्मिकानां प्रसन्नेभ्यः शासनसुरेभ्यो भव्यकार्यसिद्धिः । धर्मकार्य साधयतो युध्यमानस्य कथञ्चित् परं मारयतो न धर्मनाशः, किञ्च परमपदे वासः। विधिधर्माधिकारिणां श्रावकाणामदर्घिसंसारिता, शुभगुरुवारणादविधिकरणत्यागः । जिनसम्बन्धिन्या दारिकाया(वेश्याया) धारणनिषेधः ।। पुष्पेषु मूल्यलभ्येषु कूप-वाटिकादिकरणे स्थावरगृह-हट्टानां कारणे जिनधनं संगृह्य तद्वृद्धौ चाप्रवृत्तिः । म्रियमाणस्य देयस्थाने भक्त्या ददतश्च गृह-हट्टानां ग्रहणं तद्भाटकधनेन
च जिनपूजनम् । ३०-३१ धर्मकार्ये ददता श्रावकाणां न निवारणम्, किन्सूत्साहनं सर्व
गृहव्यापारत्यागेन कषायैर्मोचनम् । चैत्राश्विनयोरष्टाह्निकाकारकाः सुरराजा
भवेयुस्तथा शिष्टधर्मोपदेशः । ३२-३४ अष्टाह्निकाविधाने नर्तकीनृत्ये विवेकः । ३५ जिनचैये गेय-वाद्ये विवेकः । ३६. , स्तुति-स्तोत्रपाठे तालरासे लगुडरासे च विचारः । ३७ , नाटकनर्तने निष्क्रमणकथने च विधिः । ३८ , हास्य-क्रीडा-होडनिषेधः । रात्रौ युवतिप्रवेशस्य स्नपन-नन्दी-प्रतिष्ठानां
च निषेधः । , माघमाला-जलक्रीडाऽऽन्दोलननिषेधः, सूर्येऽस्तं गते बलिधारण
गृहकार्यनिषेधः । ४० , नन्दि-प्रतिष्ठाऽधिकारिसूरिलक्षणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org