________________
४६८
कुमारपालप्रतिबोधे इत्युक्त्वा विमला तत्र राजपुत्री समानयत् ॥ ८९॥ कुमारोऽवोचदाभाति निष्ठुरेव सखी तव । न करोति यदातिथ्यं दूरादस्माकमीयुषाम् ॥ ९०॥ राजकन्याऽभ्यधादन्यत्किम...........[1] ..................................................... [॥९ ॥ इत्युदीर्य सहर्ष सा पुष्पमालां न्यधापयत्।। सख्या कण्ठे कुमारस्य ताम्बूलं च समाप्पयत् ॥९२॥ कुमारोऽपि निजात्कण्ठाद्धारं सख्या न्यवेशयत्।। तत्कण्ठे सा सुधासिक्तमिवात्मानममन्यत ॥ ९३ ॥ आगतोऽत्रान्तरे तत्र कञ्चुकीमुवाच ताम् । विवाहलग्नमासन्नमिति त्वां देव्यजूहवत् ॥ ९४ ॥ ऊचे राजसुता स्वामिन् ! किं करोम्यधुना वद । कुमारो न्यगद्गच्छ विषादं मा कृथाः प्रिये ! ॥९५ ॥ ततो विमलया साई राजपुत्री गृहं ययौ । राजपुत्रोऽपि तत्रागात् सन्ध्यायां साधकान्वितः ॥ ९६ ॥ कृत्वा मुक्तावलीरूपं साधकं तत्र नन्दनः । सूरसेनकुमारेण समये पर्यणाययत् ॥९७॥ स्वयं चेटकदेवेन विहितोडाहमङ्गलः । कुमारो विमलासाक्ष्ये राजकन्यामुदूढवान् ॥९८॥ स्वावासं सूरसेनस्तु नीत्वा साधकमभ्यधात् । प्रियेऽद्य परिणीय त्वामहं लोकोत्तरोऽभवम् ॥ ९९ ॥ अभ्यधात्साधकः सत्यं जज्ञे लोकोत्तरो भवान् ।] ........................................ ॥१००॥] सूरसेनः सवैलक्ष्यं बभाषे किं भवान्पुमान् । स्त्रीरूपं साधकस्त्यक्त्वा वदत्यस्य पुमानहम् ॥ १०१॥ सूरसेनोऽभ्यधात्कस्त्वमत्रादिष्टोसि केन वा । तेनोक्तं राजपुत्रस्य नन्दनस्यास्मि सेवकः ॥ १०२॥ . नियुक्तस्तेन चात्रार्थे सूरसेनस्ततोऽवदत् । ध्रुवं राजसुतामेतां स एव परिणीतवान् ॥ १०३ ॥ तेनोचे कोऽत्र सं[ देहः ]............" [1]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org