________________
४६६
कुमारपाल प्रतिबोधे
युक्तं नक्तं विकासः कुवलय ! कला (?) यस्य वर्ण्यः प्रचारइच्छन्नञ्चन्द्र ! त्वदीयस्त्वमुचितमकृथा विद्रुमाब्धौ प्रवेशम् । साध्वी वृत्तिर्जलान्तस्तव कमल ! वरः कुन्द ! वासो वने ते येनास्या नेत्रवाधरकरदशनश्रीभिरस्तारुचिर्वः ।। ६२ ।। राजपुत्री कुमारस्य निरीक्ष्य रमणीयताम् । सखीं प्रति जगादैवं विस्मयाकुलमानसा ॥ ६३ ॥ कन्दर्प ! त्यज रूपदर्पमधुनाऽनङ्गः प्रसिडोसि य
युक्तश्चन्द्र ! कलङ्किनो न भवतः सौन्दर्यलक्ष्मीमदः । निस्यन्दाक्षिसहस्रविद्धवपुषः का शक्र ! ते रम्यता
** ॥ ६७ ॥
किं त्वेकः कुरुते ममैष पुरुषः पीयूषवर्षं दृशोः ॥ ६४ ॥ मुहुः केतकपत्राभैः कटाक्षैरवलोक्य तम् । राजकन्या जगामान्तश्चैत्यं पूजयितुं जिनम् ॥ ६५ ॥ स्त्रीं निवेश्य कुमारस्य पुरस्ताद्ब्रवीदिदम् । यदौत्सुक्याद्गां स्वामिंस्तत्रार्थे शृणु कारणम् ॥ ६६ ॥ अत्रास्ति नृपतिर्मेघो यो विपक्षमहीभृताम् । रुरोध क्रोधदावाग्निं प्रकृष्टत तस्य देव्या जयावल्याः कुक्षिशुक्तिसमुद्भवा । पुत्री मुक्तावली नाम जज्ञे क्षोणिविभूषणम् ॥ ६८ ॥ इयं सा बाल्यमुल्लङ्घ्य क्रमाद्विद्यास्वधीतिनी । वर्द्धिष्णू रूपधेयः पावनं यौवनं ययौ ॥ ६९ ॥ अन्यदा घननिर्मुक्तचननीरौधनिर्भराम् । कौतुकान्नगरासन्ना 'दियम् ॥ ७० ॥ तत्रास्ति मिलितो लोकः प्रचुरस्तदयोर्द्वयोः । तामभ्रंलिहकल्लोलां विलङ्कयितुमक्षमः ॥ ७१ ॥ ततः परतटान्नद्याः काचिदागन्तुमङ्गना । ऐच्छद वक्तटे यावत्तावद्वे मिलिते तटे ॥ ७२ ॥ तेन मार्गेण साऽऽगत्य सत्वरं स्नेहनिर्भरा | मिलिताsafe सख्याः सर्वो लोकश्च विस्मितः ॥ ७३ ॥ तां राजतनयाऽपृच्छद्रे ! किमिदमद्भुतम् ।
* आदर्शपुस्तकस्थपत्रस्य त्रुटितांशत्वेन खण्डितोऽयं पाठः । एवमग्रेपि ज्ञेयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org