________________
*82
रत्नप्रभसूरिविरचिता [IV. F34 : Verse 861 ६३४) तया भणितम् । 'श्रावस्तीपुर्या सुरेन्द्रस्य भूपतेर्दुहिता पाल्यादेव तेन पित्रा तस्य चैरिगुप्तस्य 1
परिणेतुं प्रदत्ताभूवम् । अत्रान्तरे विद्यासिद्धनामुनापहृतात्र पातालतले प्रक्षिप्ता च । जानामि तेन 3 तन्नानी । केवलं नाहमेकापहृता अत्र बहुतरा महेला अन्या अपि ।' तेन चिन्तितम् । 'अहो, ममैषा 3
चम्पकमाला प्रदत्तासीत् , ततः पश्चाद्विद्याधरणामुना समानीता। तेनोक्तम् । 'भद्रे, कथय स कुत्र विद्याधराधमः, कथं हन्तव्यः स मया । अहं स एव वैरिगुप्तः, यदि ममोपरि महान् स्नेहः ।' तयोक्तम् । 6 'यदि भवान् वैरिगुप्तस्तद्वरेण्यमजनि ।' तया निवेदितम् । 'कुमार, रहस्यं शृणु यथा पापी मार्यते । अत्र 6 देवतायतने ऽस्य खेटकं सिद्धकृपाणरत्नं चास्ति तगृहाण।' राजपुत्रेणोक्तम् । तावद्भद्रे, कथय कथं कथं वर्तते स विद्यासिद्धः।' तयोक्तम् । 'अयमस्तमिते दिनपतो बहुलान्धकारायां निशायां खेच्छया परि9 भ्रमति, महिलादिकं यत्किचित्सारं सारं वस्तु प्राप्नोति तत्सर्व समानयति । दिवसे तु महेलावृन्द-9 परिवृतोऽत्रैव तिष्ठति । तथास्यानेन कृपाणेनानेन खेटकेन च सर्वकार्यसिद्धिः। कुमारेणोक्तम् । 'अधुना कुत्रास्ते स निष्कृपचक्रवर्ती।' तयोक्तम् । 'सर्वदैव सर्वत्रीजनमध्यगतो भवति, सांप्रतं यदि स भवति 12 ततो नाहं न त्वं च।' तेनोक्तम् । 'यदि स नास्ति तत एताः कथं गायन्ति।' ततस्तया प्रोचे । 'भद्र,12 एतास्तेन विना प्रमुदिताः पठन्ति गायन्ति च । पुनरन्या रुदन्ति च ।'
६३५) कुमारेणोक्तम् । 'भद्रे, मम तस्य च द्वयोर्मध्ये एतासां हृदयंगमः को भावी' इति । 15 स्मित्वा तया प्रोचे । यतः
10 'त्यजन्ति शूरमप्येताः सस्नेहमपि योषितः । कातरं विगतस्नेहं चापि गृह्णन्ति काश्चन ॥ ८६
वातोद्भुतध्वजपट इव विद्युदिवास्थिरम् । मनो मनस्विनीनां हि कः परिच्छेत्तुमर्हति ॥ ८७ 18 तधाप्येतावन्मात्रं जानामि यद्येता भवन्तं विलोकयिष्यन्ति ततो ऽवश्यमेवैतासां त्वयि नेहो18
भावीति । एताः सर्वा अपि भवत्पुरसंबन्धिन्य एव भवन्तं दृष्ट्वा प्रत्यभिज्ञास्यन्ति । ततो दर्शनमेतासां देयमेव ।' कुमारेणोक्तम् । 'तावदस्य विद्यासिद्धस्य सिद्धकृपाणं खेटकं च समानय, पश्चादपि 21 तासां दर्शनं दास्यामि ।' तयोचे । 'अत्रैव कुमार, तावत् स्थातव्यं त्वया यावदस्मि सिद्धखेटकं सिद्धखरं 21
च समानयामि' इत्युदित्वा सा गता। ततः कुमारश्चिन्तितवान् । 'कदाचिदियं मम मृत्युहेतवे कम युपायमन्यं चिन्तयति ततोन युक्तं स्थातुमत्रैव' इति कुमारः प्रविचार्य गृहीतखेटकः स्वीकृतखङ्गरत्नः 24 पश्चाध्याघुट्य स्थितः। ततः सा स्वीकृतखङ्गखेटका तत्र प्रदेशे कुमारमपश्यन्ती विषण्णमानसा कुमारेण 24 भणिता । 'भद्रे, त्वरितं समागच्छ अत्राहमवतिष्ठामि ।' इति समाकर्ण्य तया प्रोक्तम् । 'अतः स्थानात्क
थमन्यत्र भवान् संप्राप्तः। तेनोक्तम् । 'यतो धीमतां'स्त्रीणां कदापि न विश्वसनीयम्' इति शास्त्रोक्तिः। 27 ततः पश्चाध्याघुट्य स्थितः।' 'कुमार, राज्यपदवीयोग्यस्त्वमसि, यो महेलानां न विश्वसिति' इत्युदित्वा 27
सा तत्पुरो भूमौ कौक्षेयकं खेटकं च मुमोच । राजतनयः सौवं निस्त्रिंश खेटकं च तत्करे ऽर्पयामास । कुमारेण प्रदक्षिणीकृत्य तद्वयमद्वयरूपं खीचके। तयोक्तम् । 'कुमारस्य विजयाय भवत्विदं खङ्गरत्नम्।' 30कुमारेणोक्तम् । 'भद्रे, कथय कुत्र संप्रति स दुष्टविद्यासिद्धः। तयोक्तम् । 'कुमार, केन निगमेनात्र 30 प्रविष्टो भवान् ।' तेन प्रोक्तम् । 'वटपादपकोटरच्छिद्रेण ।' तयोक्तम् । 'नाहं द्वारं जानामि, एतत्पुनर्जाने
येन द्वारेण त्वमागतः, सो ऽपि तेनैव समागमिष्यति ततस्त्वया सजीभूयामुना दिव्यखड्ड्रेन शिरश्छेद33 नीयं तस्य । अन्यथा स पुनस्तव दुःसाध्यः' इत्यवगम्य कुमारः कृपाणपाणिश्छिद्रद्वारि स्थितः। 33
६३६) अत्रान्तरे स विद्याधराधमः प्रभातकालमाकलय्य धवलगृहोपरि शयनीयप्रसुप्तामेकाकिनी तस्यैव राजसूनो पत्नीमपहत्यागतः। तत्रैव बिले तं प्रविशन्तं निरीक्ष्य राजपुच्या पूच्चके। 36 हा वैरिगुप्त हा वीर त्वत्प्रियास्मि हृतामुना। चम्पावत्यभिधानेन तस्मात्त्रायस्व मामिह ॥ ८८ 36
एवं तत्प्रलपितमाकर्ण्य विद्यासिद्धेनोक्तम् । 'तेन तव किं कार्यम् , यदि तं दयितं प्राप्नोमि तदा तमेवाश्नामि' इति श्रुत्वा कुमारेण चिन्तितम् । 'अहो, दुराचारः समागत एवं परं मम प्राणप्रियां गृहीत्वा, 39 तदेतत्सुन्दरं जातमिति यत्सलोप्तोऽयं चौरः' इति चिन्तयता कुमारेण बिलद्वारे विद्यासिद्धस्योत्तमाङ्गं 39
प्रविशष्टम् । ततः कुमारेण चिन्तितम् । 'एतस्य शिरश्छिनधि, अथवा नहि नहि किं सत्पुरुषाश्छलान्वेषिणः, सर्वथा न युक्तमेतत्तावदस्य शक्तिमालोकयामि' इति ध्यायतः कुमारस्य विद्यासिद्धश्छिद्रेण 42 प्रविष्टः। ततो भणितः कुमारेण । 'अरे, विद्यासिद्धो यदि भवान् तन्नीतिपथे व्रज, यदन्यायं कुरुषे 42
b) Bहंतव्यो यदि ममोपरि. 21) c om. तावत्. 22) B कदाचिदर्य. 26) u inter. धीमतां स्त्री & कदापि. 27) B विश्वसति.. 33)PB om. तस्य.34) प्रभातमाकलय्य. 38) कुमारेणोक्तं for कुमारेण चिन्तितम्. 39) B 'सुंदरं संजातं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org