________________
3
*80 रसप्रभसूरिविरचिता
[IV. 29 : Verse 801पापानवरनिर्जराबन्धमोक्षस्वरूपमाचख्यौ। ततो गौतमेन पृष्टम् । 'भगवन्' कथं जीवाः कर्म बध्नन्ति ।' 1 भगवतोक्तम् । 'लेश्याभेदैर्जीवाः शुभाशुभं कर्मार्जयन्ति । अत्र जम्बूफलभक्षणदृष्टान्तः ।
३०) एकदा कस्माद्रामात् षट् पुरुषाः परशुविहस्तहस्ताः समुन्नततरुच्छेदाय काननान्तः 3 प्रविष्टाः। तैरेकस्मिन् शाखिनि भक्तं स्थापितम् । तत्र भक्तपादपे समारुह्य केचिद्वानरास्तत्स भक्षयित्वा तद्भाजनमपि भङ्क्त्वा प्रतिनिवृत्ताः। ते वनच्छेदका अपि मध्याह्ने बुभुक्षाक्षामकुक्षयस्त6षातरलितचेतसस्तत्र तद्भक्तं न पश्यन्ति, भाजनमपि भग्नमालोकयन्ति । ततस्तैरिति परिज्ञातम् । 'यल- 6 वगयूथेन सर्वमपि भक्तमास्वादितम्, तावदस्माकं बुभुक्षितानां का गतिः' इति ध्यात्वा समुत्थाय फलान्वेषणाय प्रवृत्तास्ते एकं जम्बूपादपं फलितं दृष्ट्वा परस्परं मन्त्रयन्ति 'कथयत, कथं जम्बूफलभक्षणं करिष्यामः।' ततो जम्बूफलानि दृष्ट्वा तत्र तेषां मध्यादेकेनोक्तम्। 'सर्वेषामपि पञ्चशाखाः परश्वधायुधव्यग्रा 9 वर्तन्ते, ततो मूलादप्येनं छित्त्वा फलभक्षणं कुर्मः।' तन्निशम्य द्वितीयेनोक्तम् । 'अस्मिन् पादपे मूलादपि
च्छेदिते भवतां को गुणो भविष्यति, केवलमस्य शाखा एव च्छिद्यन्ते ।' तृतीयेन भणितम् । 'न शाखा 12 केवलं फलिता एक प्रतिशाखा गृह्यन्ते।' चतुर्थेनोक्तम् । 'न प्रतिशाखाः, केवलं स्तबका एव पात्यन्ते । 12
पञ्चमेनोक्तम् । 'ममैव बुद्धिरिह विधीयताम, लकुटेनाहत्य पक्कजम्बूफलानि पातयत ।' ततः किंचिद्विहस्य षष्ठेनोक्तम् । 'भो नराः, भवतां महदज्ञानम्, महान् पापारम्भः, स्तोको लाभः, किमत्र 15 प्रारब्धम्, यदि जम्बूफलभक्षणेन वः कार्य तदैतानि पक्कानि शुकसारिकादिभिः पातितानि स्वभावत: 15 पतितानि जम्बूफलानि स्वैरं भक्षयत, नो वान्यत्र व्रजत' इति ते सर्वे ऽपि तैर्धरापतितैरेव फलैः
सौहित्यसुखिता जज्ञिरे। सर्वेषामपि फलोपभोगः सदृश एव, परं पुनस्तत्र बहुविधं पापं येनेत्युक्तम् । 18'अयं पादपो मूलादपि च्छिद्यते स मृत्वा कृष्णलेश्ययावश्यं नरकातिथिरेव । द्वितीयेनोक्तम् । 'यच्छाखा 18
एव च्छेद्या' स नीललेश्यया विपद्य नरकं तिर्यक्त्वं वा प्राप्नोति । तृतीयेनोक्तम् । 'यत्प्रतिशाखा एव ग्राह्याः' स कापोतलेश्यया तिर्यग्योनावुत्पद्यते । चतुर्थेनोक्तम् । 'यत्केवलं स्तबका एव संगृह्यन्ते स तेजोलेश्यया नरो भवति ।' पञ्चमेनोक्तम् । 'यत्पकानि पकानि फलानि पात्यन्ते स पद्मलेश्यया देवत्वं 21 लभते।' षष्ठेनोक्तम् । 'यत्केवलं भूमिपतितान्येवास्वाद्यन्ते' स शुकलेश्यया सिद्धिसुखभाग् । ततो गौतम
पश्य त्वं, यदेकस्मिन् भक्षणकार्य षण्णामपि लेश्याभेदः पृथग भिन्नश्च कर्मबन्धः। यश्छिन्द्धि भिन्द्धी24त्यादिकं कर्कशं वचो जल्पति, यस्य न दया न सत्य स कृष्णलेश्यः । यः पञ्चकार्याण्यनार्याणि समाचरति 24
षष्ठं पुनर्धर्मार्थ स नीललेश्यः। यश्चत्वारि कार्याणि पापमयानि तनोति द्वयं धर्सनिमित्तं स कापोतलेश्यः। यस्त्रीणि कार्याणि पापार्थ त्रीणि च धर्महेतवे स तेजोलेश्यः। यः कार्यद्वयं पापार्थ चत्वारि 27 धर्मकारणे स पद्मलेश्यः। य एक कार्य पापहेतवे पञ्च धर्मार्थ च स शुक्कुलेश्यः। तया जिनत्वमाप्नोति ।' 27 तद्भगवतो भणितं सर्वैरपि सुरासुरनरेश्वरैस्तथेति प्रतिपन्नम्।
३१) अत्रान्तरे राजपुत्र एकः प्रलम्बभुजदण्डः सुवेषो वक्षःस्थलविलसद्वनमालः समवसरणे 30 भगवन्तं प्रणिपत्य प्रोवाच । 'भगवन् , किं तत्सत्यम्, यदिव्येन बन्दिना तत्र मम निवेदितं तन्मङ्गलम-30
मङ्गलं वा।' भगवतोक्तम् । 'भद्र, सत्सर्वमपि तथ्यमेव ।' तदाकर्ण्य 'भगवदादेशः प्रमाणम्' इति गदित्वा समवसरणतस्तस्मिन्निर्गते गौतमेनाभ्यधायि । 'नाथ, को ऽयं पुमान् , किमेतेन पृष्टम् ।' 33 ततो भगवतानेकलोकप्रतिबोधाय समाचचक्षे । 'समस्ति जम्बूद्वीपे भरतक्षेत्रे मध्यमखण्डे 33 ऋषभपुरं नाम नगरम् । तत्र चन्द्रमण्डलकरनिकरनिर्मलकीर्तिस्फूर्तिशाली चन्द्रगुप्तः क्षितिपतिः ।
तत्सुनुरनूनविक्रमो वैरिगुप्तः । तस्यान्यदिने मेदिनीस्वामिनः सभासीनस्य समागत्य प्रणिपत्य च 36 प्रतीहारी व्यजिज्ञपदिति । 'देव, द्वारे नगरप्रधाननरा भवच्चरणदर्शनमभिलषन्ति ।' तदाकर्ण्य 36
राज्ञोक्तम् । 'त्वरितमेव प्रेष्यन्ताम् ।' ततस्तया सह तैर्नरः प्रविश्य किमप्यपूर्व च वस्तु प्राभृतीकृत्य राजानं प्रणम्य विज्ञप्तम् । “दुर्बलानां बलं.राजा" इति परिभावयतु देवः । सर्वमपि नगरं केनापि मुषितम् । 39 यत्किंचिच्चारु तदखिलमपि निशि हियते।' राशोक्तम् । 'यूयं व्रजत स परिमोषी विलोक्यते लग्नः। 39
ततो राज्ञा पुरारक्षमाकार्य समादिष्टम् । 'अहो, मध्ये पुरं महांश्चौगेपद्रवः' इति । तेनापि विज्ञप्तम् । 'न
12) om. न. 14)vadds (above the line)संतु before केवलं. 16)s repeats स्वैर (below the line). 17) B adds तस्य (above the line) after पापं. 21) Bअप त्वानि for second पक्वानि, PB add वा before फलानि. 22) Badds भवति after भाग्. 37) B om. च. 40) B acids देव before न दृश्यन्ते.
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only