________________
* 78
13
रत्नप्रभसूरिविरचिता
[IV. 25 : Verse 781जीवन्ती बिन्दुमती कथंचिदृश्यते ।' कुमारेणोक्तम् । 'यद्यप्यवश्यं गन्तव्यं तथापि देव्याः पुरो निवेद- 1 यिष्ये ।' ताभ्यामुक्तम् । 'त्वमीदशः स्वामी सर्वनीतिपरायणः कथं स्त्रीणां रहस्यं कथयसि, किं न श्रुतस्त्वया जनैर्वक्ष्यमाणः श्लोकः। -
'नीयमानः सुपर्णेन नागराजोऽब्रवीदिदम् । यः स्त्रीणां गुह्यमाख्याति तदन्तं तस्य जीवितम् ॥ ७८ ततो न कथ्यं नारीणां रहस्यम् ।' कुमारेणोक्तम् । 'किमपि कारणमत्रास्ते, एकदा मया तस्या वरो 6 दायि, यत्किचिच्छ्रतं दृष्टमनुभूतं तत्सर्वमपि निवेदयिष्ये ।' ततः कुमारःप्रोवाच । 'प्रिये, संप्रति 6 वजामि।' तयोदितम् । 'यत्किंचिद्देवाय रोचते देवस्तत्तनोतु ।' ततो देव्या विहिताञ्जलिपुटया विद्याधौँ विज्ञप्ते । 'अयं पतिर्मया भवत्योासीकृत इत्यहाय इहानीय मोक्तव्यः। ततस्ते तं कुमार विमानमारोप्य गगनतलमुत्पतिते । ततस्तस्य प्रिया 'माया काप्यत्र, किं स्वमो वा, हृत एताभ्यां मम पतिरेष्य-9 तीति किं वान' इति ध्यायन्ती यावद्विषण्णा तिष्ठति तावत्स्तोकावशेषक्षणदायां विमानं प्राप्तमेव । ततस्तहष्टा तद्भार्या नलिनीवनविलोकनेनेव मरालिकाभिनवजलददर्शनेनेव शिखण्डिनी प्रमुदिता जाता। 19 ततस्तया दृष्टे विद्याधी कामगजेन्द्रोऽपि।
६२६) अथ विमानादवतीर्य वीर्यशाली शयनीये निविष्टः । प्रोचतुस्ते । 'भद्रे, स्वपतिासीकृतस्त्वयावयोर्यः स चेदानीं समानीय समर्पितोऽस्ति' इत्युदित्वा ते समुत्पत्य गते । ततोऽसौ पादपतन15 मातत्य पप्रच्छ । 'देव, भवान् क गतः, कुतो वा प्राप्तः, किं त्वया दृष्टम्, किमनुभूतम्, किमवस्था सा15 विद्याधरी प्राप्ता । एतत्प्रसद्य सद्यः कथयस्व ।' कुमारः समाख्यातुं प्रववृते । 'इतो विमानाधिरूढेन मया
योनि वैताठ्यपर्वतकन्दरोदरे मणिप्रदीपप्रज्वलनप्रद्योतितदिक्चक्रं नवीनं भुवनमेकमदर्शि तत्र नलिनी18 दलास्तरे विद्याधरकुमारी च । ततस्ते मृणालकोमलवलयां चन्दनकपूररेणुधवलां कुरङ्गीशमिमां 18 कुमारी जीवन्तीमभिवीक्ष्य प्रमुदिते ऊचतुः। 'प्रियसखि, प्रमोदं भज, एष तव मनो ऽभिरुचितो दयितः प्राप्तः, यत्कृत्यं तदाचर' इति वदन्तीभ्यां सखीभ्यां तदङ्गतो नलिनीदलान्यपनीतानि । इति यावत्ते सम्यक्पश्यतस्तावत्तस्याङ्गोपाङ्गानि शिथिलीभूतानि । ततो दयिते, ताभ्यां तदृष्ट्वा पूत्कृतं 'यदियमावयोः। स्वामिनी मरिष्यति ततोऽहमपि ।' 'किमेतत्' इति ध्यायन् विलोकितुं प्रवृत्तो-यावत्तावत्सा विनिमीलितलोचना निश्चलाङ्गोपाङ्गा पश्चतामुपागता। मया भणितम्। 24
'भवतो न देव रचितुं युक्तमिदं गगनगामितनुजा यत् ।
मम विरहदुःसहानलसंतप्ता मृत्युमुपनीता ॥ ७९ इति जल्पनाह मोहमुपागतः क्षणेन विबुद्धस्तयोःप्रलापान् शृणोमि। 27
प्रियसखि कुपिता किं त्वं प्रतिवचनं नो ददासि को हेतुः।
किं कृतमप्रियमेतत् यदयं दयितः समानीतः॥ ८० ६२७) मयोक्तम् । 'यदस्यै कालयोग्यं तत्कार्यम् ।' ततस्ताभ्यामुद्याचलचूलावलम्बिनि किरण30 मालिनि चन्दनदारूण्यानीय प्रपञ्चितायां चितायां तदनं निक्षिप्तम् । तद्दत्तो हुताशनः प्रसृतः । 'एतां 30 विनावयोर्जीवितेन किम्' इति गदित्वा चिरं विलप्य च तत्रैव ते ऽपि प्रविष्टे । एवं त्रितये ऽप्यस्थिशेषी
भूते क्षणमेकमहमपि मुद्गरेण प्रहत इव महाशोककुन्तेन प्रभिन्न इव व्यचिन्तयमिति । 'पश्य विधि33 विलसितम् , यदियं विन्दुमती मदनुरागेण विपन्ना तहःखेन एते च । ततः किं ममैतेन स्त्रीवधकलङ्क- 33
कलुषितेन जीवितेन । ततो ऽमुमेव चितानलं प्रविश्य स्वस्य कलङ्कमुत्तारयामि' यावदिति प्रिये, चिन्तयन्नस्मि तावद्विद्याधरमिथुनमध्ये विद्याधर्योक्तम् । 'विलोकय यदयं कीदृशो निर्दयः कुमारः, इयं 36 वराकी मृता, अयं पुनरद्यापि जीवति ।' विद्याधरेणोक्तम् । 'मैवं वादीः, यतः स्त्रियः पत्यो मृते चितायां 38 प्रविशन्ति पुनः सत्पुरुषेण महिलाविनाशे स्ववधो न विधेयः। एतदाकर्ण्य मया चिन्तितम् । 'यदनेन
युक्तमुक्तम् । तत एतस्यां विन्दुमत्यनुकारिण्यां वाप्यां नीरलावण्यपूर्णायां विकसितनीलेन्दीवरलोचनायां 39 चलद्धवलमृणालवलयकलितायां विकसितशतपत्रवरवायां तरलजलतरङ्गरगद्भङ्गिकटाक्षच्छटायां 39 विकटकनकतटनितम्बफलकायामहमवतीर्यतासां तिसृणां जलाआलं ददामि' इति चिन्तयित्वावतीर्णो
दयिते, तां वापी यावन्मजनोन्मजनं कृत्वा निर्गतस्तावत्तत्र सर्वमप्यपूर्व पश्यामि । व्योमतलस्पर्शिनः 42 शाखिनः। महाप्रमाणा औषध्यः। उच्छूिताङ्गास्तुरङ्गाः। पञ्चचापशतमाना मानुषाः । महादेहाः पक्षिणः। 42
____4) वीदिति. 9) एव ताभ्यां for एताभ्यां. 11) B नलिनवन. 15) पादपतनमातन्य. 16) Bom. सधः. 19) Bom. कुमारी, B वीक्ष्य सप्रमुदितमूचतुः. 21) B inter. ताभ्यां तहट्टा. 29) कालस्य योग्य. 31) B ते for तेऽपि. 36) Badds एतत्कृते before मृता.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org