________________
*32
रत्नप्रभसूरिविराचेता
[III. $ 4 : Verse 171 तस्मिन् परंतपो नाम्ना कर्मणा च महीपतिः । विख्यातकीर्तिविस्फूर्तिर्दिशासु चतसृष्वपि ॥ १७ 1
शश्वद्विवस्वतस्तुल्यो यः कैलासौकसः समः। वचस्पतेः समानश्च प्रतापेन श्रिया धिगा ।। १८ 3वीतरागपदाम्भोजभृङ्गः सम्यक्त्वधारकः।प्रतापशोषिताशेषारातिभूमीरुहोऽभवद ॥ विशेषकम॥3 वशीकृतनतानेकभूपमौलिविलासिभिः। मणीनां किरणैर्यस्य पादपीठं समर्चितम् ॥ २० यस्तु कण्ठीरव इव प्रदरैर्नखरैः खरैः। विपक्षान् जलक्षाणि क्षणुते स्म क्षमापतिः॥ २१ 6 तस्यानेकपुरन्ध्रीणां श्रेष्ठा ज्येष्ठा गुणश्रिया । समस्त शशिकान्तास्या शशिकान्ताभिधा प्रिया॥२२ 8 तत्र चास्ति महादक्षःशुद्धबुद्धिर्धनाभिधः । श्रेष्ठी गरिष्ठः सुगुणैः पुण्यसंभारभाजनम् ॥ २३ धारिणीति शुभारम्भा रम्भारूपसरूपरुक् । प्रभुते व सदाचारस्यास्य लोकंपृणा प्रिया ॥ २४ धनपालो धनदेवो धनगोपस्तथा परः । धनरक्षितनामाथ चत्वारस्तनयास्तयोः॥२५ सर्वे ऽपि पाठिताः पुत्राः पित्रोपाध्यायसंनिधौ । अल्पैरपि दिनैर्विद्यास्वनवद्याश्च ते ऽभवन् ॥ २६
मनोभवनृपोद्यानं शृङ्गारदुमजीवनम् । ततस्तेन [: स्त्रैण] जनानन्ददायि यौवनमाययुः ॥ २७ 12 तत्रैव स धनः पुत्रान् महेभ्यानां समश्रियाम् । कन्यकाभिः नुरूपाभिः क्रमशः पर्यणाययत् ॥ २८ 12 प्रथमस्योज्झिका जाया भक्षिकाख्या परस्य च । रक्षकाथ तृतीयस्य चतुर्थस्य तु रोहिणी ॥ २९
सुखं विषयजं ताभिः सेवमानाः सुता गतम् । भूयिष्ठमपि ते कालं देवा इव न जानते ॥ ३० 16 स कदाचिद्धनः श्रेष्ठी जजागार निशाञ्चले । धर्मानुध्यानमाधाय गृहचिन्तां चकार च ॥ ३१ स्त्रिया गृहस्य निर्वाहो नरि यन्तरि सत्यपि। धुरगेव शताङ्गस्य भृतस्यानेकवस्तुभिः ॥ ३२
पुत्रपौत्रवधूभृत्यैराकीर्णमपि मन्दिरम् । भार्याहीनं गृहस्थस्य शुन्यमेव विभाव्यते ॥ ३३ 18 भुक्त प्रियतमे भुङ्क सुप्ते च स्वापिति स्वयम् । तस्य पूर्व च जागर्ति सा श्रीरेव न गेहिनी॥३४ 18
करोति सारा सर्वस्मिन् द्विपदे च चतुष्पदे । सर्वस्यौचित्यमाधत्ते सा लक्ष्मीहिणीमिषात् ॥ ३५ एतासां तु वधूटीनां मध्यान्मम निकेतने । गृहभारसमुद्धारकारिणी का भविष्यति ॥ ३६ ततः स प्रातरुत्थाय प्रातःकृत्यं विधाय च। सूपकारैः कलासारैर्धान्यपाकमकारयत ॥ ३७ पितृवर्ग चतसृणां वधूटीनां निमन्य सः । अपरं पारलोकं च भोजयामास सादरम् ॥ ३८
भोजनान्ते ततः श्रेष्ठी बान्धवान् स न्यवेशयत् । सश्चकार च ताम्बूलस्रग्दुकूलविलेपनैः॥ ३९ 24६५) समक्षमथ सर्वेषां वधूमाकार्य चोझिकाम् । पञ्च शालिकणास्तस्याः समार्पयदखण्डितान् ॥४० 24
गत्वैकान्ते तया चित्ते चिन्तितं मन्दमेधसा। अभदुद्धत्वसंबन्धात् श्वशरो विपरीतधीः॥४१ महान्तमुत्सवं कृत्वा जनानाहूय सर्वतः। पञ्च शालिकणानेष पाणौ मम यदार्पयत् ॥ ४२ 27 त्यजामि किं कणैरेतैर्यदा याचिष्यते ऽसकौ । तदान्यानर्पयिष्यामि ध्यात्वेत्युज्झांचकार तान् ॥ ४३ 27
अथ वध्वै द्वितीयस्यै पञ्च शालिकणान् ददौ । धनः श्रेष्ठी गृहीत्वा सा विजने ऽचिन्तयञ्चिरम् ॥४४ हेतुना श्वशुरः केन भ्रान्तो बुद्धियुतोऽप्यसौ । य: कार्येण विना गेहे तनुते द्रविणव्ययम् ॥ ४५ 30 प्रयच्छति कणान् पश्च लोकस्य पुरतः करे। त्यजामि तान् कथं दत्ता ये तातेन मम स्वयम् ॥४६ 30
सा सुषा निस्तुपानेतान् कृत्वा क्षिप्रमभक्षयत् । आकारयदथ श्रेष्ठी तृतीयां रक्षिका वधूम् ॥ ४७ व्यश्राणयत्कणान् पञ्च तस्याः सा च व्यचिन्तयत् । मन्ये किंचिन्महत्कार्य कणैरेतैर्भविष्यति ॥ ४८ सर्षानेतान् प्रयत्नेन रक्षामि महता यदा। याचिष्यते गुरुस्तूर्णमर्पयिष्ये तदा कणान् ॥ ४९ 33 हृदये चिन्तयित्वेति स्वालङ्कारकरण्डके । शुद्धवस्त्रं नियन्येति क्षित्वा रक्षिकया तया ॥ ५० वीक्षामास त्रिसंध्यं सा देवतामिव तान् कणान् । आकारिता ततस्तेन चतुर्थी रोहिणी वधूः ॥ ५१ 36 तेन प्रजल्पिता दत्त्वा पञ्च शालिकणान् करे । त्वतो वत्से यदा याचे देया एते तदा त्वया ॥ ५२ 36 विजने रोहिणी गत्वाचिन्तयद्बुद्धिशालिनी । मत्य मे श्वशुरो वाचस्पतिप्रतिकृतिः कृती ॥ ५३
महाजनप्रधानो ऽसौ नानाशास्त्रविशारदः । वर्धशामि तदेतेन प्रदत्तं कणपञ्चकम् ।। युग्मम् ।। ५४ 39 तयैवं हृद्यनुध्याय प्रेषितास्ते पितुर्गृहे । भ्रातृणामिति चादिष्टं निजा इव कणा अमी ॥ ५५ 8
वर्षे वर्षे च वर्षासु वापं वापं स्वहालिकैः। तथा कथंचनाधेयं यान्ति वृद्धिं यथा पराम् ॥ युग्मम् ॥ ५६ ततस्तैर्बन्धुभिस्तस्या गिरा प्राप्ते घनागमे । उप्ताः शालिकणाः पञ्च ते वप्रे वारिहारिणि ॥ ५७ 42 स्तम्बीभूय गता वृद्धि शालयः कणशालिनः। प्रस्थस्तेषामभूदेका प्रथमे वत्सरे ततः॥ ५८
11) PB ततस्तेन. 18) B स्वप्ते for सुप्ते. 25) PB स्वसुरो -34) क्षिप्ता. 36) P पन शाखाकणान्. 41) बने कारिहारिणि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org