SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ * 30 रत्नप्रभसूरिविरचिता [ II. § 42 : Verse 177 - 1 पुनरपि श्रीधर्मनन्दनेन भणितम् । 'भो वासव मन्त्रिवासव, यत्त्वया पृष्टं यथैतस्य चतुर्गतिलक्षणस्य 1 संसारस्य किं प्रथमं कारणम् । तत्रामी महामलाः पञ्च क्रोधमान माया लोभमोहाः प्रवृत्ता जीवं 3 दौर्गत्यपथमुपनयन्ति ।' इत्याचार्यश्री परमानन्दसूरिशिष्य श्रीरत्नप्रभ सूरिविरचिते कुवलयमालाकथासंक्षेपे श्रीप्रद्युम्न सूरिशोधिते क्रोधमानादिकषाय च तुष्टयतथा मोहस्वरूपवर्णनो नाम प्रस्तावो द्वितीयः ॥ २ ॥ 6 [ अथ तृतीयः प्रस्तावः ] ११) ततः स नृपतिः प्रमुदितचेताः सदामन्दानन्दकन्द कन्दलनाम्बुदस्य श्रीधर्मनन्दनस्य मुखतः कषायादिविपाक फललक्षणदेशनावचनामृतं तृष्णातरलित इव निपीय सदसः समुत्थाय निजं धाम समा9 जगाम । इतश्च दिवसाधीश्वरे ऽस्तगिरिशिखरमुपागते सायन्तनविधिं विधिवद्विधाय वसुधाधिपतिरचि- 9 न्तयत् । ' अस्मिन् मदनसित्रे महोत्सवे ईदृशे प्रदोषे ते साधवः किं कुर्वन्ति, किं यथावादिनस्तथाविधायिनः, किं वान्यथा, त्रिलोकयामि' इति विचिन्त्यालक्षितः सर्वत्र प्रसृते तमोभरे कटीतटनिबद्धरिकः कृपाण12 पाणिरे काकी भूपतिः सौधान्निर्गत्य नगरान्तररथ्यासु मिथुनानां दूतीनामभिसारिकाणां च प्रभूतान्परस्प- 12 रालापानाकर्णयन् कस्मिँश्विचत्वरे सान्धकारे स्तम्भमिव वृषभेणोद्धृष्यमाणमूर्द्धदमं कमपि मुनिं प्रतिमास्थं कृशाङ्गं दवदग्धस्थाणुसदृशं मन्दाराचलवन्निश्चलं वीक्ष्य दिवा स्तम्भो ऽत्र नाभूत् 'किं को ऽपि धर्मनन्द15 नसंबन्धी व्रती, अथवान्यः कोऽपि दुष्टः पुमान्, अनेन रूपेण तावत्परीक्षामस्य रचयामि' इति ध्यात्वाकृष्ट- 10 रिष्टित हतेति वदन्नासन्नमागतः । तमक्षुब्धं मुनिं वीक्ष्य निश्चित्य स्तुतिं कुर्वन् प्रदक्षिणात्रयं पूर्वं दत्त्वा प्रणिपत्य पुरतो ऽगच्छद्विद्युदुत्क्षिप्त करणेन । ततो ऽसौ दुर्लङ्घयं प्राकारमुल्लङ्घयोद्यानासन्न सिन्दूरकुट्टिमतलमाज18 गाम । तत्र च तेन भूभुजा श्रीधर्मनन्दनाचार्यस्य केचित्साधवो मधुरस्वरेण स्वाध्यायं विरचयन्तः केचिद्धर्म- 18 शास्त्राणि पठन्तः केचित्पदस्थ पिण्डस्थरूपस्थरूपातीत ध्यान दत्तावधानाः केचिदुरुचरणशुश्रूषापरायणाः केचिद्विचाराचारपरा विलोकिताः । ततो नृपतिर्दध्याविति । 'अहो यथाभिधायी तथाविधायी' । 'भगवान् 21 क पुनः, स स्वयं किं करोति ।' इति विमृशंस्तद्दिन दीक्षितानां तेषां पञ्चानामपि मुनीनां पुरो धर्ममुपदि - 21 शन्तं निशम्य किं कथयत्येषामथे ।' इति विचिन्त्य नरेश्वरस्तमालतरुमूले निषण्ण इत्यश्रौषीत् । 'भो भो देवानांप्रियाः, कथमपि जीवा इमे पृथिव्यप्तेजोवायुवनस्पतिष्वनन्तकालं भ्रान्त्वा द्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रि24 यतामवाप्य तिर्यक्पञ्चेन्द्रियत्वं च ततश्चातीवदुर्लभं मनुष्यजन्म लभन्ते । तत्राप्यार्यदेशप्रशस्य जाति सुकुल- 24 सर्वेन्द्रियपटुत्वनीरोगताजीवितव्यमनोवासनासद्गुरुसमायोगतद्वचःश्रवणानि दुष्प्रापाणि । इयत्यां सामग्र्यां संपन्नायामपि जिनप्रणीतबोधिरत्नमतीव दुर्लभम् । तच्च लब्ध्वा धर्म प्रति संशयेन अन्यान्यधर्माभिला27 पेण फलं प्रति संदेहेन कुतीर्थिकप्रशंसया तत्परिचयेन चतुर्भिः कषायैः पञ्चभिर्विषयैर्व्यामूढा वृथा 27 निर्गमयन्ति सम्यक्त्वम् । एके च 'ज्ञानमेव प्रधानम्' इति वदन्तः क्रियाहीनाः पङ्गवत् । अपरे च 'क्रियैव प्रशस्या' इति मन्यमाना अन्धवद्भवदवान्तर्विनश्यन्ति मोहमोहिताः ।' इति कथयति भगवति 30 नृपतिर्थ्यातवान् । 'तावत्सर्वमपि सत्यमेतत् । किं पुनरिदं दुर्लभं राज्यं महिलाप्रभवं शर्म परिजनसुखं 30 चानुपाय पश्चाद्धर्ममाचरिष्यामि, इति चिन्तयतस्तस्य महीभृतः श्रीधर्मनन्दनगुरुणा ज्ञानेन भावमुपलक्ष्य तेषामेव पञ्चानां पुरः प्रोचे । 'यदेतद्राज्य सौख्यं स्त्रियश्च लोके सर्वमेतदनित्यं तुच्छं चेति । पुनः सिद्धि33 भवं सुखमनन्तमक्षयमव्याबाधं चेति ।' 7) B adds on the margin गुरो befor मुखत:. 8) B puts No. 1 on फल and No. 2 on विपाक, B adds on the margin चेता after तरलित 10 ) B मित्रमहोत्सवे. 14 ) PB om. कोऽपि after किं. 15 ) P रूपे तावत्. 16) PB om. दत्त्वा 19 ) o inter. पदस्थ and पिण्डस्थ. 21 ) Pom. तेषां B trans. तेषां after मुनीनां 25 ) P " तद्वचनश्रवणानि 33 ) Pनंतक्षयम 37 ) B adds मरुपांध: शाखिनमिव after वैश्वानरमिव, B तृष्टा for तृषा. 3 Jain Education International ( २ ) अस्ति समस्त पुरवरं पाटलीपुत्रं पुरम् । तत्र धनो धनेन धनद इव वणिगुत्तमः । सो ऽन्यदा यानपात्रेण रत्नद्वीपं प्रति प्रचलितः । तस्य संचरतः समुद्रान्तः प्रचण्डेन वायुना समुल्लसताभ्रंलिह96 कल्लोलमालाभिः प्रेर्यमाणं यानपात्रं पुस्फोट । स धनस्तदा क्षुधाक्षामकुक्षिराहारमिव, हिमार्तो वैश्वानर- 36 मित्र, तृषाकान्तस्तोयमिव फलकमेकं प्राप्य सप्तभिर्वासरैः कटुकफलसमाकुलपादपशतसंकुलं संसारमिवालब्धपारं विषमिव महाविषमं कुडङ्गद्वीपमाशिश्राय । तत्र तेन स्वैरं परिभ्रमता सहसापरः पुरुषो 39 दहशे । धनस्तं निरीक्ष्य हर्षितवदनो भव्यजीव इव जैनधर्म स्वच्छमनाः पप्रच्छ । 'कुत्रत्यः केन हेतुनात्र 39 For Private & Personal Use Only 6 33 www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy