________________ SOMESVARA BHATTA AND HEMACANDRACARYA 233 The two passages bearing number 41 are related in a way to a passage found in Namisadhu who is decidedly earlier than both of our writers. These passages deserve special attention. Let us set forth the three passages for a comparative study : Namisadhu : अथ यत्र साम्यमात्रे सति विनैवोपपत्त्या संभावना भवति न चोपमाव्यवहारस्तत्र कोऽलंकारः / यथा(१) यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति / बलाहकच्छेदविभक्तरागामकालसन्ध्यामिव धातुमत्ताम् // -Kumara, I.4 तथा (2) 'आवर्जिता किञ्चिदिव स्तनाभ्याम्' इत्यादिषु / -Kumara. III.54 अत्र ह्यकालसन्ध्यादीनां संभावने न काचिदुपपत्तिनिर्दिष्टा / न चाप्युपमाव्यवहारः / यतः सिद्धमुपमानं भवति / न वा काले सिद्धत्वम् / तथा यद्यर्थाश्रवणान्नाप्युत्पाद्योपमाव्यवहारः / न चाप्यतिशयोत्प्रेक्षासंभवोऽस्ति / अत्रोच्यते-उपमायामसंभव उत्प्रेक्षायां त्वनुपपत्तिरत उभयत्रापि लक्षणस्य न्यूनतायामुपमाभासो वा स्यादुत्प्रेक्षाभासो वा / एवम् (3) पृथिव्या इव मानदण्डः -~Kumara I 1 इत्यादावपि द्रष्टव्यम् / -On Rudrata VIII. 37 Somesvara : (1) अकालसन्ध्यामिव धातुमत्ताम् / -Kumara I. 4 (2) आवर्जिता किञ्चिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् / . सुजातपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव / / -Kumara III. 54 (3) अचिराभामिव [च]घनां ? (विघना) ज्योत्स्नामिव कुमुदबन्धुना विकलाम् / रतिमिव मन्मथरहितां श्रियमिव हरिवक्षसः पतिताम् // -Kuttanimata 258 (4) स्थितः पृथिव्या इव मानदण्डः / --Kumara I. 1 (5) हिरण्मयी साऽऽस [? साल-] लतेव जङ्गमा च्युता दिवः स्थास्नुरिवाचिरप्रभा / -Bhatti II. 47 (6) बालेन्दुवक्राण्यविकाशभावाद् बभुः पलाशान्यतिलोहितानि / सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् / / --Kumara. III. 29 इत्यादिषु उत्प्रेक्षैव / धातुमत्तादीनां हि प्रत्यक्षत एव अकालसन्ध्यादिसादृश्यमुपलभ्य अकाले सन्ध्या न भवतीति असंभाव्यमानवस्त्वध्यवसायस्य संभावना क्रियते / 'अकालसंध्यामिव' इति प्रत्यक्षोपलब्धौ च न युक्त्यन्तरं मार्गणीयम्, न तु उपमा, उपमानस्य असंभवात्, नाप्यसंभवोपमा, अस्माद् असंभाव्योपमेयदर्शने सति तस्याः प्रयोगात्,..... Stud.-30 www.jainelibrary.org For Private & Personal Use Only Jain Education International