SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २० प्रस्तावना (पृ. ३३ ), सागर (पृ. ८१ ), साधर्मिकवात्सल्य (पृ. ९० ), सामायिक (पृ. ३३, ९३ )। श्रीप्रियङ्करनृपकथाया वर्तन्तेऽनेका हस्तलिखितप्रतयः, तथाहि पुण्यपत्तनस्थप्राच्यविद्यासंशोधनमन्दिरे द्वे प्रती । तत्रैका २८पत्रात्मिका 'लखितं मुनी शांतिसागर ' इति प्रान्तस्थोल्लेखसङ्कलिता, अन्या तु २५ पत्रात्मिका निम्नलिखितग्रन्थमानलेखकनाम - तत्समयनिर्देश पूर्विका 46 ग्रन्थमानम् १००० । संवत १८२३ वर्षे मार्गशीर्षमासे शुक्लपक्षे दशमीतिथौ गुरौ वारे रेवतीनक्षत्रे वरीमान ( वरीयसि ? ) योगे श्री सूरति बन्दिरे वृद्धापणे नव्योपाश्रये श्रीविधिपक्षगच्छाधीश्वरपूज्य भट्टारक श्रीउदयसागरसूरीश्वराणां विजयिनि राज्ये शिष्यपं. श्रीदर्शन सागरगणिना लिपीचक्रे ( लिपिः कृता ? ) प्रियङ्करनृपकथा | श्रेयः श्रेयकः । उदका -ऽनल - चौरेभ्यो, मूर्खकेभ्यस्तथैव च । रक्षणीया प्रयत्नेन, एवं वदति पुस्तिका ॥ ३ ॥ श्रीसंभवनाथप्रसत्तेः । " एतत्प्रतिय मलाधारेण न्यायतीर्थव्याकरणतीर्थपं. बेचरदासमहाशयैः संशोधितस्य पुस्तकस्य ङेति संज्ञा मया निर्धारिता संशोधनसमयेऽस्य सुगमस्य हृदयङ्गमस्य च कथानकस्य । १ प्रियङ्कर नृपकथायाः प्रारम्भे 'श्रीवामासूनुसद्वरः ' इत्युल्लेखो वर्तते, तं दृष्ट्वा डेक्कन कॉलेज रिपॉर्टसञ्ज्ञके ग्रन्थे जैनग्रन्थावल्यां च कर्तृनाम सद्वरेति निर्दिष्टं परन्तु तद् भ्रान्तिमूलकं ज्ञेयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy