________________
प्रस्तावना
वीतरागस्तोत्रस्य पन्जिका १५१२तमे वैक्रमीयाब्दे। वाग्भटालङ्कारस्य वृत्तरपि विधातार इमे मुनीश्वराः। हरिशब्दार्थगर्भितश्रीवीतरागस्तवस्य प्रणयितारः श्रीविवेकसागरा एषां विनेयाः। पं.मेरुरत्नगणयोऽप्येषां छात्राः। तत्र उपदेशमालाविवरणप्रान्तस्थोऽयमुल्लेखः प्रमाणम्
___“लिखितं श्रीवटपद्रनगरे श्रीसोमसुन्दरमरिशिष्यश्रीविशालराजसूरितच्छिष्यपं. मेरुरत्नगणितच्छिष्याणुसंयममूर्तिगणिना"
श्रीसोमधर्मगणिकृताया लघूपदेशसप्ततिकायाः प्रशस्तिगतेन निम्नलिखितेन पद्येन पोस्फुरीति एतेषां प्रभावशालिता" जगदाबादकवचसो विशालराजा जयन्तु मूरिवराः । दग्धेऽपि वपुषि येषां न भस्मसाच्चोलपट्टोऽभूत् ॥८॥"
१ वाग्भटालङ्कारस्य विविधा वृत्तयो वर्तन्ते, तथाहि
(१) श्रीसिंहदेवगणिविरचिता टीका ( काव्यमालायां ४८तमगुच्छकरूपेण मुद्रिता), (२) श्रीजिनवधनसूरिविरचिता काव्यकुमुदचन्द्रिकाख्या व्याख्या, (३) श्रीक्षेमहंसगणिरचिता वृत्तिः, (४) श्रीअनन्तभट्टसुतगणेशगुम्फिता विवृतिः (५) श्रीराजहंसोपाध्यायप्रणीता टीका ।
२ जिनवर ! परमार्हतः स्तवस्ते ___ व्यरचि मया गुरुसुन्दराख्य ! प्रवितर सुविशालराजराजद्
गुण ! मम वर्यविवेकसागरम् ।। १०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org