SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १२ 60 प्रस्तावना चञ्चच्चन्द्र' कुलं सदोदित ' तपा' पक्षाख्यविम्बोल्लसन्मार्तण्डोपम सोमसुन्दरगुरोः शिष्याग्रणीः सूरिराट् । श्रीमानस्ति विशालराजसुगुरुर्विद्यानदीसागरस्तत्पादप्रणतोऽस्म्यलं स्तुतिसखा जैनस्तुतेः पञ्जिकाम् ||" सह पञ्चविंशदक्षरसपादषट्शतमिताऽजनिष्ट सुगमेयम् । वर्षे 'तिथिरवि (१५१२)सङ्ख्ये शितिपक्षे तपसि गुरुपुष्ये ॥ " 44 44 पद्येनानेनानुमीयते यत् श्रीजिनराणां सत्तासमयः षोडशशताब्दीपर्यन्तकः । रचनास्थलादिविचारः 44 इय जिणसूरिहि आणंदपूरिहि पासनाह संधुणीय भणीइं " इति २६२तमस्य पद्यस्य पूर्वार्धावलोकनेन तर्क्यते यद् आनन्दपुरे प्रणयनं व्यधायि मनोमोहकस्य कथानकस्यास्य । किञ्चात्रापि स्वनामोल्लेखोऽकारि कर्तृभिरिति दरीदृश्यते । उपसर्गहरस्तोत्रस्य प्राभाविकी कथाप्रणयितृभिरेभिः श्रीपार्श्वनाथस्य स्तुतिरनेकशो यदि कृता तर्हि तत् स्वाभाविकम् । एवं सति कथानकगगनाङ्गनसुराः श्रीजिनपूरा अस्तुवन् त्रयोविंशतितमं श्री पार्श्वनाथं धरणेन्द्र- पद्मावतीपूजितपादमिति न विस्मयास्यदम् । तत्रापि जीराउलापार्श्वनाथ विशेषतः प्रियः कर्तॄणामिति प्रतिभाति २७९तमपद्यस्याद्याक्षराणां निरीक्षणात् । अपरञ्च तेषां श्रीपार्श्व १ अङ्कानां वामतो गतिरिति नियम उदलङ्घि, किन्तु अन्यैरप्येवमकारि । एतज्जिज्ञासुभिर्दृश्यतां श्रीशोभनस्तुतेर्मदीया भूमिका ( पृ. ५०-५१ ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy