________________
उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् १०३ विसहरफुलिंगमंतं, कंठे धारेइ जो सया मणुओ।। तस्स गह-रोग-मारी-दुजरा जंति उवसामं ॥२॥
अस्य व्याख्या–यान्ति-गच्छन्ति । के एते कारः ? ग्रहरोगमारिदुष्टज्वरा इति । आदित्यप्रभृतयोऽष्टाशीतिग्रहपीडा नाशयन्ति रोगा-वातपित्तश्लैष्मिकामयादयःमारि क्षुद्रयन्त्रमन्त्रयोगिनीकृतं महाघोरोपसर्गज्वररुकूप्रभृतयः दुष्टज्वरा अनेकप्रकाराः-दाव(ह)-ज्वर-वातज्वर-पित्तज्वर-विषमज्वर-नित्यज्वर-वेलाज्वर-मुहूर्तज्वरादयः । कं कर्मतापन्नम् ? ' उपशामम्' । विनाशं यान्तीत्यर्थः । कस्य ? तस्य । यः किं० ? आत्मनाऽनुजः(मनुजः-)पुरुषो धारयति-व्यवस्थापयति । के कर्मतापन्नम् ? 'विषधरस्फुलिङ्गमन्त्रं' विषधरस्फुलिङ्गस्य मन्त्रस्तम् । विषधरस्फुलिङ्गमन्त्रोपलक्षणत्वात् तथैकप्रकारं पञ्चनमस्कारचक्रमष्टारमष्टवलयारचक्रमुच्यते। क धारयति ? कण्ठे । निरन्तरं एकाग्रमानस(मनसा?) ध्यायमानं सर्वकल्याणसम्पत्कारकमित्यर्थः। कथम् ? 'सदा" सर्वकालम् । इति गाथार्थः ॥
अस्य भावनाविशेषः । वृद्धसम्प्रदायः-प्रथमं तावदष्टारमष्टवलयारमध्ये हूंकारनामगर्भितस्य बहिरष्टदलेषु ॐ पार्श्वनाथाय ह्रीं नमः संलिख्य दक्षिणापार्श्वे पार्श्वयक्षं संस्थाप्य वामपार्श्वे पार्श्वयक्षिणी संस्थाप्य बाह्ये चतुर्दिक्षु ॐ ब्रह्मणे नमः, ॐ धरणेन्द्राय नमः, ॐ नागाय नमः, ॐ पद्मावत्यै नमः, संलिख्य बाह्ये षोडश स्वरानावेष्टयेत् । बहिरष्टपत्रेषु ॐ हां श्रीं नमिऊण पासनाहं ३ विसहर ४ वसह ५ फुलिङ्ग ६ ह्रीं नमः संलिख्य, तद्धहिरष्टपत्रेषु ॐ नमो अरिहंताणं ही
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org