________________
88
CAMDALEHA The प्रतापरुद्रयशोभूषण (ed. K. P. Trivedi, Bombay 1909) of विद्यानाथ (1st quarter of the 14th century A. D.) mentions ten रूपकs in which is not given any place; so the commentary Tancut remarks thus on p. 101 : दश रूपकाणीति । नाटिकासट्टकादीनामत्रैवान्तर्भावादिति भावः । तत्प्रकारस्तु दशरूपके द्रष्टव्यः।
___The साहित्यदर्पण (ed. P. V. Kane, Bombay 1923) of Visvanātha (between 1300-1384 A. D.) includes सट्टक in the list of 18 उपरूपका (VI. 4-6); and it is described thus (VI. 276-7): अथ सट्टकम् । सट्टकं प्राकृताशेषपाठ्यं स्यादप्रवेशकम् । न च विष्कम्भकोऽत्र प्रचुरश्चाद्भुतो रसः ॥ अंका जवनिकाख्याः स्युः स्यादन्यनाटिकासमम् । यथा कर्पूरमञ्जरी ॥.
The definition of नाटिका is thus given by the नाट्यशास्त्र (XVIII. 58-61): प्रकरणनाटकमेदादुत्पाद्यं वस्तु नायकं नृपतिम् । अन्तःपुरसंगीतककन्यामधिकृत्य कर्तव्या ॥ स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी । बहुनृत्तगीतपाठ्या रतिसंभोगात्मिका चैव ॥ राजोपचार(७. ८. कामोपचार-) युक्ता । प्रसादनक्रोधदम्भ-(५. ८. शृङ्गाराभिनयभाव-) संयुक्ता । नायकदेवीदूतीसपरिजना नाटिका ज्ञेया॥[अन्तर्भावगता ह्येषा भावयोरुभयोर्यतः । अत एव दशैतानि रूपाणीत्युदितानि वै॥]. The commentary of Abhinavagupta is interesting and deserves to be noted; it runs thus : प्रकरणनाटकाभ्यां भेदात् लक्षणान्यत्वान्नाटिका ज्ञेयेति दूरेण संबन्धः । उत्पायं वस्तु चरितं च नायकं च नृपतिम् अन्तःपुरकन्यां संगीतशालाकन्यां वाधिकृत्य प्राप्यत्वेन अभिसंधाय कर्तव्या। स्त्रियः प्रायेण बाहुल्येन यत्र । चत्वारोऽङ्काः । यस्याः कस्याश्चिदवस्थायाः सरसोऽवस्थासमावापः कार्य इति यावत् । ललिताभिनयात्मिकेति कैशिकीयं बद्धेत्यर्थः । सुष्ठ पूर्णतया विहितानि चत्वार्यपि कैशिक्यङ्गानि यत्र । 'अङ्गगात्रकण्ठेभ्य' इत्यत्र स्वाङ्गविशेषणाभावात् छीषू प्रयोगः । एतदपि न मुनित्रयमतमित्यनादृत्यमिति त्वन्ये । रतिपुरस्सरः संभोगो राज्यप्राप्त्यादिलक्षण आत्मा प्रधानभूतं फलं यस्याम् । अत एवाह राजगतैरुपचारैः व्यवहारैर्युक्ता, अन्यां चेदुद्दिश्य तत्र व्यवहारः, तत्पूर्वनायिकागतैः क्रोधप्रसादवञ्चनैरवश्यं भाव्यमिति दर्शयति प्रसादनेति, आर्यानुरोधात्क्रोधस्य पश्चात्पाठः ॥ ननु यस्याः क्रोधो भवति सा न काचिदुक्तेत्याशंक्याह नायकेति । नायकस्य येयं देव्याद्या नायिका तथाभिलषितनायिकान्तरविषये दूतीकृतं सपरिजनं परिजनसमृद्धिर्यस्याम् । एतदुभयप्रधानं सर्वं तत्रेत्यर्थः । अन्यत्संध्यङ्गादि सर्व तत्रेत्यर्थः । अन्यत्संध्यङ्गादि सर्व पूर्ववदेव । तत्रैकानायिका तावद् व्याख्याता भवति । षट्पदेयं नाटिकेति संग्रहाणुसारिणो भट्टलोल्लटाद्याः । श्रीशकस्तु अयुक्तमेतदित्याभिधायाष्टधेति व्याचष्टे । तथा हि देवी कन्या च ख्याताख्याताभेदेन द्विधेति । घण्टकादयस्त्वाहुःनायको नृपतिरित्येतावन्मानं नाटकादावुपजीवितः न तु प्रख्यातत्वमपि तद्भेदद्वयादन्येऽष्टाविति षोडशभेदा इति। नायको नृपतिरिति ये प्रथमां पठन्ति तैर्यत्रेत्याध्याहृत्यैकवाक्यतायां तूभयस्य कार्यम् । अन्ये प्रथममार्याधू पृथगेव च वाक्यं योजयन्ति प्रकरणभेदात्प्रकरणलक्षणांशात् उत्पाद्य वस्तु नाटकलक्षणांशाच्य नृपतिर्नायकः स्थिते यत्रेत्यभिप्राये नाटिकैवंभूतेति ॥ अन्ये तु प्रकरणनाटकभेदात् नाटिका भिद्यते नाटकशब्देनाभिनेयं रूपकमात्रं तस्यां सौकुमार्यप्रदर्शनाय स्त्रीत्वेन निर्देश इति प्रकरणिकापि सार्थवाहादिनायकयोगेन कैशिकीप्रधाना लभ्यत इत्याहुः ॥.
The दशरूपक (III. 43-48) defines Natika thus : लक्ष्यते नाटिकाप्यत्र संकीर्णान्यनिवृत्तये । तत्र वस्तु प्रकरणान्नाटकानायको नृपः ॥ प्रख्यातो धीरललितः शृङ्गारोऽशी सलक्षणः । स्त्रीप्रायचतुरङ्कादिभेदकं यदि चेष्यते ॥ एकद्विव्यङ्कपात्रादिभेदेनानन्तरूपता । देवी तत्र भवेज्येष्ठा प्रगल्भा नृपवंशजा ॥ गम्भीरा मानिनी कृच्छात्तद्वशान्नेतृसंगमः । नायिका तादृशी मुग्धा दिव्या चातिमनोहरा ॥ अन्तःपुरादिसंबन्धादासन्ना श्रुतिदर्शनैः । अनुरागो नवावस्थो नेतुस्तस्यां यथोत्तरम् ॥ नेता तत्र प्रवर्तेत देवी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org