SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ३६० काव्यमाला। जयपुरराज्यस्याखिलसंस्कृतशिक्षा निरीक्षणं दधता । मानमहीपच्छायामधिवसता मञ्जुनाथपरनाम्ना ॥१४॥ गगनमुनिनन्दचन्द्रप्रमिते विक्रममहीपतेर्वर्षे । सप्तशतीयं कलिता संमिलिता टीकया परतः॥ १५ ॥ गाथासप्तशतीयं प्राकृतलोकोपभोग्यसौभाग्या। अमरगिरा संबन्धात्संस्कृतजनतोपयोगिनी जाता ॥ १६ ॥ निभृतनिषेव्यममृतमयमुपवनमिदमार्यरसिकानाम् । नावश्यकप्रवेशाः सभ्याः क्षाम्यन्तु तत्सदयम् ॥ १७ ॥ उपसंहारः देवर्युपाह्वभट्टश्रीमथुरानाथशर्मनिर्मितिषु । सेयं संस्कृतगाथासप्तशती पूर्तिमवतीर्णा ॥ १८ ॥ १ 'सुपरवाइझर संस्कृतपाठशालाजात जयपुरस्टेट' । २ प्राकृतभाषानुरागिभिमोग्यापि अमरभारतीसगात्संस्कृतभाषिजनताया उपयोगिनी जाता। किञ्च प्राकृतलोकैः साधारणजनैरुपः भोग्यापि संस्कृतसंसर्गात्संस्कारसंस्कृतानां नागरिकाणामुपयोगिनी जातत्यप्यर्थः। संस्कृतस्य अपूर्वोत्कर्षदायकत्वं व्यज्यते। ३ ये आर्या दर्शन-प्रभृतिगभीरग्रन्थेषु सततं प्रसितास्ते मनोवि. नोदाय तदिदं निभृतोपवनमासेवन्ते । अत एव अरसिकहृदयतया नवीनसभ्यतानुरोधाद्वा येषामेतत्सप्तशतीगतेष्वर्थेषु न प्रवेशोऽभवत्तेषामेतत्प्रवेशस्यावश्यकतापि न । यतः किल आयरसिकानाममृतप्रदत्वेन अत्यन्तमिष्टतमं तदिदं निभृतम्' (Private) उपवनमस्ति । एवं सति सभ्यतानुरोधात् अप्रवेशनियम-(No admition )-बाध्या: सभ्येतिबिरुदवाहिनस्ते कृपा विधाय क्षमा विधेयासुरित्यर्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy