________________
संस्कृतगाथासप्तशती ।
अण्णोष्णकडक्खन्तरपेसिअमेलीणदिट्ठिपसराणम् ।
दो चिअ मण्णे कअभण्डणाइँ समहं पहसिआई ॥ ९९ ॥ [ अन्योन्यकटाक्षान्तरप्रेषित मिलितदृष्टिप्रसरौ ।
७ शतकम् ]
द्वावपि मन्ये कृतकलहौ समकं प्रहसितौ ॥ ]
अन्योन्यकटाक्षान्तरसंप्रेषित मिलितदृक्प्रसरौ ।
"
aaaaat किल मन्ये द्वावपि सहसा समं हसितौ ॥ ९९ ॥ अन्योन्यकटाक्षान्तरे संप्रेषितः मिलितश्च दृक्प्रसरो ययोरीदृशौ कृतकलहौ द्वावपि मन्ये समं युगपत् हसितौ । कोपप्रशमेपि 'अयं पूर्वमनुनयेत् इयं पूर्वमनुनयेत्' इति केवलं प्रथमानुनयं प्रतीक्षमाणयोरनयोः कोपशान्त्युत्तर मौत्सुक्यस्योदयात्परस्पर कटाक्षविनिमये सति समकालमेव हासो जातो न पूर्वपश्चाद्भावेनेति भावः । कटाक्षान्तरे दृष्टिप्रेषणस्यायमाशयो यत् 'प्रशान्तकोपतायामप्यधुना किं व्यवस्यति, अनुनयाय कियाम्विलम्बः' इति मिथः परिज्ञानाय द्वावपि परस्परं प्रति मुहुर्दृष्टिं निक्षिपतः । परम् औत्सुक्यं मे न प्रकटीभवेदित्यभिसन्धिना स्पष्टमदृष्ट्वा नेत्रप्रान्तेन निभृतं विलोकयत इति । द्वावपि च परस्परमेवमनुसंघित्सावशान्मिथः कटाक्षेण दृष्टिं निक्षिपतः । अत एव द्वयोर्हक्प्रसरो मिलति । ततश्च परस्परं मिलितनयनौ द्वावपि परस्परस्य हृदयदशां परिज्ञातवन्ताविति सहसा द्वयोरेव युगपत् हासः समभवदित्याशयः । एवं च - परस्परं नयनयोग एव विहसितवतोर्युवयोः कोपदृढता सम्यगस्माभिः परिज्ञाता ! किं मुधा गोपयथः इति नायकी प्रति परिहासः सख्या व्यज्यते । 'भण्डण' शब्द: प्राकृते कलहविशेषवाचकः । 'मेली दिद्विपसराणम्' इत्यस्य 'मिलितदृष्टिप्रसरौ' इति छायाकरणं प्राक्तनटीकानुरोधेन । 'मेलितदृष्टिप्रसरयोः ( अनयोः मध्ये ) कृतकलहौ द्वावपि मन्ये समं प्रहसितौ' इत्येव यद्यर्थोऽभविष्यन्न काचिदर्थक्षतिरित्यलम् ।
नितान्तमनुरक्तामपि नायिकां धीरमानितया यथावदननुवर्तमानं नायक नायिकाच्छन्दानुवर्तिनं कर्तुं नायिकासखी हरनमस्कारव्यपदेशेन सवैदग्ध्योपालम्भमाहसंझागहिअजलञ्जलिपडिमा संकन्तगोरिमुहकमलम् ।
अलिअं चित्र फुरिओट्टं विअलिअमन्तं हरं णमह ॥ १०० ॥ [ संध्यागृहीतजलाञ्जलिप्रतिमा संक्रान्त गौरी मुखकमलम् ।
अलीकमेव स्फुरितोष्ठं विगलितमन्त्रं हरं नमत ॥ ] सन्ध्योपात्तजलाञ्जलिबिम्बितगौरी मुखाम्बुरुहम् ।
स्फुरिताधरं मुधैव हि विगलितमन्त्रं हरं नमत ॥ १०० ॥
३५७
सन्ध्योपासनार्थं गृहीते जलाजलौ प्रतिबिम्बितम् [ प्रतिमया प्रतिबिम्बरूपेण संकान्तम् ] गौरीमुखकमलं यस्य तम् । अत एव - प्रेयसीमुखावलोकनादुज्जृम्भितभावान्तरतया विगलितो मन्त्रो ( मन्त्रजपः ) यस्य, तथापि प्रमादगोपनाय मुधैव स्फुरिताधर संचलदोष्टपुढं हरं प्रणमत । विस्मृतादिस्थाने विगलितपद निवेशेन- बलादुपस्थापितोषि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org