________________
७ शतकम् ]
संस्कृतगाथासप्तशती ।
[समविषमनिर्विशेषाः समन्ततो मन्दमन्दसंचाराः।
अचिराद्भविष्यन्ति पन्थानो मनोरथानामपि दुर्लच्याः ॥] समविषमनिर्विशेषाः समन्ततो मन्दमन्दसंचाराः।
अचिरान्मनोरथानामपि दुर्लया भवन्ति पन्थानः ॥७३॥ हरिततृणाच्छन्नतया जलपूर्णतया वा अलक्षितोचावचस्थलाः। अत एव वा पिच्छिलतया वा मन्दमन्दं संचरणं येषु तादृशाः, मार्गा मनोरथानामपि दुर्गमा अचिरादेव भवन्ति भविष्यन्ति । प्रावृडियं प्रक्रान्ता, अत एव मार्गे गतागतमतिशीघ्रमेव रुद्धं स्यादिति शैघ्यातिशयसूचनाय भविष्यन्तीति स्थले भवन्तीत्युक्तम् । 'वर्तमानसामीप्ये वर्तमानवद्वेति लटू । पन्थान इति बहुत्वेन प्रामागमनस्य सर्वेपि मार्गा रुद्धा भवेयुरिति सूच्यते । लोका मार्गलङ्घनस्य मनोरथमपि न करिष्यन्ति किं पुनस्तदारम्भमिति, वाञ्छन्नपि प्रियतमो विवशतया नागन्तुं शक्नुयादिति भावः । 'संकेतस्थलान्तराभावेन मार्गासन्नकुञ्जादौ दत्तसंकेता कांचित्प्रति, वर्षा विना जनसंचारजुष्टं तत्स्थलं न संप्रति संकेतयोग्यं सत्यां वर्षायां तथा स्यादिति' सूचयन्त्याः सख्या वा सेयमुक्तिः ।
वंशकुञ्ज प्रियं संभुज्य परावृत्तायाः पुत्रवध्वाः शिरोच्चले कुजलमानि वंशपत्राणि दृष्ट्वा तदपराधसंसूचनेन साकूतमुपहसन्त्यां श्वश्वां पुत्रवधूरपि सापराधां तां समुचितमुत्तरमाह
अइदीहराइँ बहुए सीसे दीसन्ति वंसवत्ताई। भणिए भणामि अत्ता तुम्हाण वि पण्डुरा पुट्ठी ॥७४ ॥ [अतिदीर्घाणि वध्वाः शीर्षे दृश्यन्ते वंशपत्राणि ।।
भणिते भणामि श्वश्रु युष्माकमपि पाण्डुरं पृष्ठम् ॥] अतिदीर्घाणि हि वध्वा दृश्यन्ते शिरसि वंशपत्राणि । श्वश्रु भणिते भणामः पृष्ठं युष्माकमपि पाण्डु ॥७४॥ अतिदीर्घाणीत्यादि भणिते एतत्कथनस्योत्तरे। हे श्वश्रु वयमपि भणामः 'युष्माकमपि पृष्ठं पाण्डुरम्' इति । निरास्तरणभूमौ कृतसंभोगायाखवापि पृष्ठे तच्चिद्रं स्फुटमङ्कितमिति किं मामेवोपहससीत्याशयः। युष्माकमिति श्वश्रू प्रत्यादरकृतं बहुत्वम् । भणाम इति खस्मिन्नादरसूचकेन बहुवचनेन तु-'किं मच्छिद्राण्युद्धाटयसि । अहमपि ते सर्व रहस्यं वेद्मि' इत्यात्मनोऽभिमानो ध्वन्यते । अतिदीर्घाणीति विशेषणेन-पवनोडीनान्येतानि लग्मानीत्युत्तरावकाशस्थगनं ध्वन्यते । अतिदीर्घाणां तेषां पवनैरहार्यत्वात् । अत्ता इति श्वभूसंबोधने देशी। 'पुट्ठी' इति पृष्ठशब्दस्य प्राकृते स्त्रीत्वं प्रसिड्यनुशासनात् ।
नायिकाया मानं विलोक्य विरक्ता सेति भ्रमेण विरज्यमानं नायकं बोधयितुं वृद्धा दूतीदमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org