________________
७ शतकम् ]
संस्कृतगाथासप्तशती।
हारे किञ्चित् श्यामता सूचिता । ततश्च-स्तनमुखश्यामतया हारोपि तत्प्रतिच्छायया श्यामायित इति व्यज्यते। तथा च-स्तनमुखश्यामतया लक्षितसत्त्वाधाना त्वं संप्रति नोपभोगयोग्येति तव पीनोन्नतस्तनावकाशमलभमानोऽहमुद्विग्नो मनसि खिद्य इति नायिका प्रति मनोभिलाषो ध्वन्यते।
शिशुनापि एकाकिना सचिवसूनुना राजपुरुषगोष्ठीमधितिष्टता तेन कियान्वा परितः प्रभावः प्रसारित इति कश्चिदन्यापदेशविधयाह
एक्केण वि वडवीअङ्कुरेण सअलवणराइमज्झम्मि । तह तेण कओ अप्पा जह सेसदुमा तले तस्स ॥ ७० ॥ [एकेनापि वटबीजाकुरेण सकलवनराजिमध्ये ।
तथा तेन कृत आत्मा यथा शेषगुमास्तले तस्य ॥] - सकलवनराजिमध्ये ह्यपि वटवीजाकुरेण चैकेन ।
तेन तथा कृत आत्मा यथा हि शेषद्मास्तले तस्य ॥ ७० ॥ वटबीजाङ्कुरेण एकेनापि सता तथा आत्मा कृतो यथा शेषास्तदितरे द्रुमास्तस्य तलेऽभवन् । उत्तुगतया विस्तृततया च सर्वे वृक्षा नीचीभूता अभवन्नित्यर्थः । तथा च-एकाकिनापि तेन प्रतिद्वन्द्विमण्डले तथोन्नतिरासादिता यथा सर्वेपि विपक्षाः परिभूता इवाभवन्निति व्यज्यते । वटाङ्कुरेत्येव वक्तव्ये वटबीजाङ्कुरेणेत्यनेन-मया बीजादुद्भवनकुरो दृष्टस्तेन च क्रमादेवमुच्छ्रायः संपादित इति सूच्यते । ततश्च साम्प्रतमेव लब्धजन्मना शिशुना तथोत्कर्षः संपादित इति त्वरितोन्नतिोत्यते। शेषा द्रुमा नीची. भूता इत्यस्य स्थाने तलेऽभवन्नित्युक्त्या-एकस्य वृक्षस्य तले यथान्ये वृक्षा न यथावदुपचयमुपगच्छन्ति तथा एतदभिभूतानां पुरुषाणामुन्नतिरेव नाऽभवत्, तस्य परिभवस्तु कुत इत्यतिशयो व्यज्यते । 'मूढेनापि तरुणा उत्कर्षाय चेष्टितं त्वं पुनर्महावंशप्रभवः कथं न यतस इति निरुद्योगं कश्चित्प्रत्युपदेशो व्यङ्ग्यः' इति कश्चित् । 'राजसंनिधौ तिष्ठता तेन मम मित्रेण किं संपादितमिति पृष्टः कश्चिदाह' इति गङ्गाधरः। अङ्कुरपदस्य खारस्यमत्रान्वेषणीयमेव ।
गुणवन्तो न बहुधा धनवन्तोपि भवन्तीति सवैदग्ध्यमुपपादयन्कश्चिद्दारिद्यं संबोध्याह
जे जे गुणिणो जे जे अचाइणो जे विडड्डविण्णाणा। दारिद्द रे विअक्खण ताण तुमं साणुराओ सि ॥७१॥ [ये ये गुणिनो ये ये च त्यागिनो ये विदग्धविज्ञानाः ।
दारिद्र्य रे विचक्षण तेषां त्वं सानुरागमसि ॥] ये ये गुणिनो ये ये च दानिनो ये विदग्धविज्ञानाः। दारिय रे विचक्षण तेषां त्वं सानुरागमसि ॥ ७१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org