________________
७ शतकम् ] संस्कृतगाथासप्तशती।
एत्थ णिमजइ अत्ता एत्थ अहं एत्थ परिअणो सअलो। पन्थिअ रत्तीअन्धअ मा महँ सअणे णिमन्जिहिसि ॥ ६७॥ [अत्र निमजति श्वश्रूरत्राहमत्र परिजनः सकलः ।
पथिक रात्र्यन्ध[क] मा मम शयने निमलयसि ॥] श्वश्रूरत्र निमजत्यत्राहं चात्र परिजनः सकलः।
राज्यन्ध पथिक मा मा शयनीये नौ निमंक्ष्यसि हि ॥ ६७ ॥ अत्र अत्रेति त्रिः पृथक्पृथक् त्रयाणां स्थान निर्देशार्थम् । निमज्जति निःस्पन्दं शेते। निमज्जतिपदेन-'श्वश्रूः सविधे वर्तमानेति भीतिर्मनसि नानेया। इयं हि शिथिलरजुकायां खट्वायां जरत्तरत्वेन निःस्पन्दं परिपतति । अत एव मञ्चरूपकूपनिमनाया नास्या भयम्' इति शङ्काराहित्यं व्यज्यते । 'अहं' पदेन सह 'स्वपिमि' इत्यादिखापबोधकपदानुक्त्यामन्मथोन्माथमयी सोत्कण्ठाहं न रात्रौ निद्रां लमे, अत एव प्रतीक्षिणी स्थास्यामीत्युत्कण्ठातिशयो ध्वन्यते । 'अत्र सकलः परिजनः' इति पृथक्पृथक् स्थानमिङ्गितेन निर्दिश्य 'सकल'पदेन ते सर्वे सह संविशन्तश्चिरं खवर्यवार्ता विनोदेन चिरकालोत्तरं शयाना न कथंचिदप्यमवर्गस्य वार्तामपि रात्री प्रत्ययन्तीति सूच्यते । वास्तवे तु 'एत्थ अहं दिअहए पलोएहि' इति पाठः । ततश्च 'अत्राहं दिवसके प्रलोकय भोः' इत्यनेन-'त्वं राव्यन्धः' अत एव 'कः कुत्र शेते' इति दिवसे सम्यक् प्रलोकय' इति पथिकं प्रति सूच्यते । तथा च-'मदनशरशीर्णहृदयस्त्वमित्यहं जाने, परं पामरो दिवसकोऽयम् (कुत्सायां कन्)। अस्मच्छ्रेयःप्रतिकूलत्वात्कुत्सितोयमित्यर्थः । न च रात्रिं यावदधीरेण भाव्यम् । यतोऽ. त्रैवाहम्, तत्प्रलोकय । नान्यतो गच्छामि । तदन्योन्यवदनावलोकन विनोदेन दिवसहत. कमिममविवाहयावः' इति द्योत्यते । आगतमात्रायां च रात्रावन्धीभूतो मदीयायां शय्यायां मा श्लिक्षः। अपि तु निभृतनिभृतमेत्य दत्तावधाननिकटकण्टकनिद्रान्वेषणपूर्वकं मम शयनीये निलीनो भविष्यसि [इति 'निमंक्ष्यसि' पदद्योत्यम् ] । 'पथिक! रात्र्यन्ध !' इति संबोधनद्वयं रहस्यगोपनाय । यतः पथिकत्वेन श्रमवशात्स्थानविस्मरणसंभवः । रात्र्यन्धत्वेन शय्यायां पतनप्रसङ्गसंभवः । अन्यथा 'आवयोः शय्यायां मा निमंक्ष्यसि' इत्यप्रसक्तनिषेधेन रहस्यभङ्गापत्तेः । एवं च रात्र्यन्धताव्याजशिक्षणेन-कदाचिदैववशान्निकटकंटकप्रबोधेपि नात्मनो दोषः प्रतीतो भवेदित्याकूतम् । तथा च-'संप्रति गृहे श्वश्रूरहं चेति द्वावेव । श्वश्रूश्च जरत्तरत्वेन निःस्पन्दा बधिरा च मञ्चरूपकूपे निकामं निमज्जति । गृहे बहिर्जनसंचारस्तु नास्त्येव । अतो रात्र्यन्धताव्याजभूमिकामवलम्ब्य निःशई ममैव शय्यायां निभृतं निलीनो भव' इति वक्तृबोद्धव्ययोवैशिष्ट्यादभिव्यज्यते । 'महँ' इत्यावयोरित्यर्थे निपातः, न तु ममेत्यर्थे । आत्ममात्र निर्देशेन रहस्यभङ्गापत्तेः । अत एव आलोक'लोचने' 'महँ ण मजिहिसि' इति पाठं मत्वा 'महँण' इति निपातो. ऽनेकार्थवृत्तिः अत्रावयोरर्थे न तु 'ममेति' इत्युक्तम् । एवं काव्यप्रकाशटीकाकृद्भिरपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org