________________
9 भूमिका। सकलभूमण्डलभाषामौलिमुकुटायमाना सेयं संस्कृतसरस्वती सर्वदेशीयैरपि तत्वज्ञ. पण्डितैः सर्वतः पुरातनीति सबहुमानमभिनन्दिता, सर्वतः प्रथमं ज्ञानालोकजननीति विनीतिपुरस्सरमभिवन्दिता, गौरवस्य सौष्ठवस्य माधुर्यस्य सौभाग्यस्य औदार्यस्य गाम्भीर्यस्य नैर्मल्यस्य मार्दवस्य चाधिष्ठानावनीति सप्रमोदमुपच्छन्दिता, हृदयपरिष्करणाय चाप्रतिद्वन्द्वं प्रभुरिति सत्यतममिन्दिता चेति नात्र विस्तारयितुमावश्यकम् । परमस्या एव सुरसरखत्याः सकाशादुद्भवमधिगतवती प्राकृतभाषापि मध्ययुगे सुबहुतरं जनसं. मानमर्जयामासेत्यभ्युपगन्तव्यमेव भवेत् ।
नवीनशिक्षादीक्षिताः साम्प्रतिकाः केचन हिन्दीकर्णधारास्तु प्राकृतभाषायाः पक्ष पुष्णन्तस्खदिदमपि साधयन्तः श्रूयन्ते यन्नैषा भाषा संस्कृतभाषातः समुत्पना । इयं तु प्रकृति नियमानुसार सर्वतः प्रथमं खयमुत्पेदे । नामैवास्यास्तमिमं विषयं सूचयति । प्रत्युत संस्कृतभावास्याः सकाशात्कृतसंस्कारत्वाजन्माधिगतवतीति संस्कृतनाम्नाऽभ्यजानीमेति । अस्तु. नास्मिन्विषये साम्प्रतमिहाभ्यधिकं प्रपञ्चयितुं कामये । स्थानान्तरे तदिदं स्पष्टं निर्णीतं निर्णेष्यते च । परं प्राकृतभाषायाः प्रकाण्डपण्डितस्य प्रसिद्धकोष. कारस्य च श्रीमतो हेमचन्द्राचार्यस्य केवलं तदिदं सूत्रमुपन्यस्यामि यत्र सुस्पष्टमयमूरीकरोति यत्संस्कृतभाषात एव प्राकृतभाषायाः समुत्पत्तिरिति । आह स:-'प्रकृतिः संस्कृतम्, तत आगतं प्राकृतम्' । एवं सति प्रकृतिशब्दमात्रेण या भित्तिर्नवीनरुत्थापिता सा किल सुभृशमेव निर्बलावतिष्ठते । नवीनशिक्षिताः प्रायः प्राचीनपण्डितानधि. क्षिपन्ति यदिमे विनैव युक्तिप्रमाणं खमतमग्रसरीकर्तुमभिनिविशन्त इति । परमस्मिविषये सुस्पष्टतरमाश्चर्यमनुभवामि यन्नवीनसभ्यमहाभागैः 'संस्कृतभाषातः प्राक्तनी सेयं प्राकृतभाषे'त्यस्मिन्विषये किं वा सुदृढं प्रमाणमुपलब्धम् ? अपि वेदेभ्यः प्राचीनं किञ्चित्प्राकृतपुस्तकमधिगतं श्रीमद्भिः ? आहोस्विद् भगवन्तो वेदा एव न गीर्वाणभाषया साकं सम्बन्धमधिगच्छन्ति ? साम्प्रतिकी संस्कृतभाषां वेदकालिकी प्राचीनाममरभारती च व्याकरणादिनियमैः कैश्चिद्भिन्नामिवापाततो ज्ञात्वा भाषाभेदभ्रमे तु न पतितव्यम् । एतद्धि अनुमानसीमतोप्यधिकेन कालेन संघटितं केवलं व्याकरणनियमानां क्रमिक परिवर्तनमात्रम् । एतावन्मात्रेण द्वयोरनयोर्भाषयोः परस्पर भेदो न सिध्येत् । 'सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्' इत्यादीनि दिव्यान्यक्षराणि संस्कृतभाषातो विभिन्नैरन्यैरेब कैश्चिद्धातुभिः संघटितानीति को वा पुरुषपुङ्गवः साधयितुं प्रभवेत् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org