________________
[ ४
त्ति सप्तरज्ज्वायताया एक प्रादेशिक्याः श्रेणेः 'असंख्यांश:'- असंख्य भागगताकाशप्रदेशैः परिमिता जीवाः सन्तीत्यर्थः ।
'सुरवंतरे 'त्यादि, देवगत्यो वे, व्यन्तर सुर-ज्योतिष्कसुरयोः, सर्वेष्वोघ-पर्याप्ताऽपर्याप्त तिरश्चीभेदभिन्नेषु पञ्चेन्द्रियतिर्यग्भेदेषु सर्वेष्वोघ-पर्याप्तापर्याप्तभेदभिन्नेषु 'विकल' त्ति द्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रियास्तेषामेकैकस्य त्रिषु त्रिषु भेदेषु तथैव सर्वेषु त्रिसंख्याकेषु पञ्चेन्द्रियजातिभेदेषु सर्वेषु त्रिसंख्याकेषु सकायभेदेषु सर्वेष्वोघोत्तरभेदभिन्नेषु पञ्चसु मनोयोगभेदेषु तथैव पञ्चसु बचो - योगभेदषु तथा 'बायरसमत्तेत्यादि, तत्र समाप्तशब्दः पर्याप्तवाची, तो बादरपर्याप्तपृथिवीकायाScoreयोः, बादरपर्याप्त प्रत्येक वनस्पतिकाये, वैक्रियतन्मिश्रयोगलक्षणयोर्द्वयोर्योगयोः, स्त्रीवेद-पुरुषवेदविभङ्गज्ञानेषु 'रायण' त्ति चक्षुर्दर्शने, तेजः-पद्मशुक्लेश्यालक्षणे शुभलेश्यात्रिके तथा संज्ञिनीत्येवं पञ्चचत्वारिंशन्मार्गणास्थानेषु प्रत्येकं 'पयरे' त्यादि, घनीकृतलोकस्य यत्प्रतरं तस्यासंख्यांश स्थितासु श्रेणिषु यावन्तो नभः प्रदेशास्तावद्भिर्नभः प्रदे शैस्तुल्या जीवाः सन्तीत्यर्थः ॥ ५ ॥
'संखेज्जा' इत्यादि, मानुषी, पर्याप्तमनुष्यः, अपगतवेदः, मनः पर्यवज्ञानम्, सर्वार्थसिद्धदेवः, संयमौघः, सामायिकसंयमः, छेदोपस्थापन संयमः, परिहारविशुद्धिकसंयमः, सूक्ष्मसम्परायसंयमः, आहारक-तन्मिश्रयोगलक्षणमाहारकद्विकं चेत्येवं द्वादशमार्गणास्थानेषु प्रत्येकं संख्येया जीवाः सन्ति ||६||
'सेसारण ताईत्यादि, भणितशेषेष्वानतकल्पादिषु चतुरनुत्तर विमानान्तेषु सप्तदशसु सुरभेदेषु, मतिज्ञान - श्रुतज्ञाना --ऽवधिद्विक- देशविरत सम्यक्त्वौघेषु, तथा 'पल्लासंखंसो उवसमेत्यादि, औप शमिकसम्यक्त्वे क्षायिकसम्यक्त्व मिश्रदृष्टि- सासादनदृष्टिष्वित्येवमष्टात्रिंशतिमार्गणास्थानेषु पल्योपमस्याऽसंख्यभागो जीवा ज्ञेयाः । इह हि 'सम्मेसु' उ' इत्यत्र तुकारो विशेषद्योतनार्थः, अर्थात् 'पल्लाSसंखंसो' इति सामान्येनोक्तेऽपि आनतकल्पादि
Jain Education International
सप्तदशनिमाणम्नेषु क्षायिकसम्यक्त्वे च 'पल्ल' इत्यनेनाद्वापल्योपमो ग्राह्यः, शेषमतिज्ञानादिदशमाणास्थानेषु तु तेन क्षेत्रपल्योपमो ग्राह्य इति ॥ ७ ॥
'बायरसमत्तेत्यादि, तत्र समत्तशब्दः प्राग्वत्, ततश्च बादरपर्याप्तभेदवर्जितेषु ओघ - बादरौघ तदपर्याप्त सूक्ष्मौध-तत्पर्याप्ताऽपर्याप्तभेदभिन्नेषु भूगरिव कामेसु ' ति षषु पृथ्विका यभेदेषु, षट्षु अकायभेदेषु षट्षु अग्निकायभेदेषु, पषु वायु कायभेदेषु, तथा प्रत्येक वनस्पतिकायांघे तदपर्याप्तभेदे चेत्येत्रं षड्वंशतिमाणास्थानेषु प्रत्येकं 'लोगा प्रसंखिज्जा' त्ति असंख्येयेषु लोकप्रमाणेषु क्षेत्रपण्डेषु यावन्त आकाशप्रदेशास्तावन्तो जीवाः सन्तीत्यर्थः ॥ ८ ॥
'बायरपज्जा ग्गिम्मि' इत्यादि, बादरपर्याप्तानिकायमाणास्थाने पुनः देसूणे त्यादि, आवलि• कायाः समयेषु घनी कृतेषु यावन्तः समया भवेयुस्ततः स्तोकमात्रेणैकदेशेन न्यूना जीवा भवन्तीत्यर्थः ।
'बायरपज्जारणीले' त्ति बादरपर्याप्त 'नीले' वायुकाये लोकस्य संख्येयतमे भागे यावन्त आकाश - प्रदेशाः सन्ति तावन्तो जीवाः सन्तीत्यर्थः ॥ १० ॥
'सेसाsg' इत्यादि, उपर्युक्तशेषेषु तिर्यग्गत्योघादिष्वत्रिंशन्मार्गणास्थानेषु प्रत्येकं 'रांता' त्ति अनंता जीवाः सन्ति । श्रष्टात्रिंशच्छेषमार्गरणास्थानानि त्विमानि - तिर्यग्गत्योः, ओघ - बादरौघ तत्पर्याप्तापर्यात सूक्ष्मौघ तत्पर्याप्ताऽपर्याप्तभेदभिन्नाः सप्त एकेन्द्रियभेदाः, तथैव सप्त साधारणवनस्पतिकायभेदाः, वनस्पतिकायौधः, काययोगौधः, औदारिकतन्मिश्र - कार्मणकाययोगाः, नपुंसकवेदः, क्रोधादिकपायचतुष्कम्, मत्यज्ञान- श्रुताज्ञाते, असंयमः, अचक्षुदर्शनम्, कृष्णादिशुभलेश्याः, भव्या-भव्यौ, मिथ्यात्वम्, असंज्ञी, आहारका ऽनाहारकौ चेति ।
अथोपसंहरन्नाह - 'इइ रइय' मित्यादि, अस्य चान्वय उत्तरगाथोत्तरार्धे 'दव्वपमाणे त्यादिना, तथा च 'इति' सप्तत्युत्तरशतमार्गणास्थानेषु जीवपरिमाणकथनद्वारेण 'रज्जे सिरिपेमसूरी 'ति चतु
For Private & Personal Use Only
www.jainelibrary.org