SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्री वीरनन्दि-प्रणीतं चन्द्रप्रभचरितम् [ १. प्रथमः सर्गः ] श्रियं क्रियाद्यस्य सुरागमे नटत्सुरेन्द्रनेत्रप्रतिविम्बलाञ्छिता । सभा बभौ रत्नमयी महोत्पलैः कृतोपहारेव स वोऽग्रजो जिनः ॥१॥ स पातु यस्य स्फटिकोपलप्रभे प्रभाविताने विनिमग्नमूर्तिभिः । विदिद्युते दुग्धपयोधिमध्यगैरिवामरैर्वः शशिलाञ्छनो जिनः ॥२॥ विद्वन्मनोवल्लभा वन्देऽहं सहजानन्दकन्दलीकन्दबन्धुरम् । चन्द्राकं चन्द्रसंकाशं चन्द्रनाथं स्मराहरम् ॥ १ ॥ चन्द्रप्रभाहंदीशस्य' काव्यं व्याख्यायते मया। विश्वमन्वयरूपेण स्पष्टसंस्कृतभाषया ॥ २ ॥ श्रियमित्यादि । यस्य स्वामिनः । सुरागमे सुराणामागमस्तस्मिन् । नटत्सुरेन्द्रनेत्रप्रतिबिम्बलाञ्छिता नटतां नृत्यतां सुरेन्द्राणां देवेन्द्राणां नेत्राणां प्रतिबिम्बाञ्छिता चिह्निता तथोक्ता। रत्नमयी रत्नस्य [ रत्नानां ] 'विकारस्तथोक्ता मणिनिर्मिता । सभा समवसरणम् । महोत्पलैः महान्ति च च तान्युत्पलानि च तैर्नीलोत्पलैः । कृतोपहारेव कृता उपहारा यस्याः सा विरचितपुष्पाञ्जलियक्तेवेत्यर्थः । बभौ रेजे। सः अग्रजः अग्रे जायत इत्यग्रजः प्रथमकाले जातः । जिनः दुर्जयकर्मठकारातीन जयति निर्मलयतीति जिनः पुरुपरमेश्वरः । वः युष्माकम् । ‘पदाद्वाक्यस्य' इत्यादिना युष्मदः षष्ठीबहुवचनस्य वसादेशः । श्रियम् अन्तरङ्गबहिरङ्गसंपत्तिम् । क्रियात् विधेयात् डुकृञ् करणे लिङ् । उत्प्रेक्षा ॥ १ ॥ स इत्यादि । यस्य स्वामिनः । स्फटिकोपलप्रभे स्फटिकस्योपलस्येव प्रभा यस्य तस्मिन् । उपमा। प्रभाविताने प्रभाणां कान्तीनां विताने समूहे । विनिमग्नमूर्तिभिः विनिमज्जन्ति स्म विनिमग्नास्ता मूर्तयो येषां ते तथोक्तास्तैः । अमरैः भावानुवाद प्रथम तीर्थंकर भगवान् ऋषभदेव तुम सबको कल्याण सम्पत्ति प्रदान करें। इस युगमें सबसे पहले अवतरित होनेसे वे अग्रज अर्थात् आदिपुरुष कहे जाते हैं। उन्हें जब केवलज्ञानकी प्राप्ति हुई थी तब समस्त इन्द्रोंने उत्सव मनाया था। उन्होंने देवोंकी उपस्थितिमें उक्त ऋषभदेवके सामने सभा ( समवसरण ) में नृत्य किया था। सभाकी भूमि चूंकि रत्नजटित थी, अतः वहाँ इन्द्रोंके नेत्रोंकी छाया पड़नेसे ऐसा प्रतीत होता था मानो वह उन ( ऋषभदेव ) के लिए स्वयं नील कमलोंका उपहार भेंट कर रही हो ॥१॥ चन्द्र-चिह्नसे विभूषित अष्टम तीर्थकर भगवान् चन्द्रप्रभ ( चरितनायक ) तुम सबकी रक्षा करें। उनके देहकी कान्ति स्फटिक १. आ हंधीरस्य । २. आ स विकारास्त । ३. आ च तथोक्तानि तैर्नी । ४. = कृत उपहारः पजाविशेषो यस्यां सा। ५. = सचराचरे जगति प्रसिद्धः । ६. श स विधीयात् । ७. आ इकृड श स इकिज । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy