________________
४८४
चन्द्रप्रमचरितम्
गुरुणा पुरोधसा, वा गरिष्ठेन ( गरिष्ठेन वा ) ॥ १०८ ॥ उषित्वा वसित्वा । श्वसुरानुज्ञां गृहीत्वा ॥ १०९ ॥ अध्वा मार्गः । अति० स्तोकैः ॥११० ।। उद्धृतरिपुं संहृतशत्रुम् । विकसत्कदम्बाकारम् ।।१११।। . ..
इति चन्द्रप्रमचरितमहाकाव्यपञ्जिकायां षष्ठः सर्गः ॥ ६ ॥
सप्तमः सर्गः
आप्तमीमांसादिशास्त्रप्रकाशं योऽकरोन्मुनिः ।
स श्रुतादिमुनि याच्छद्धादिगुणभासिवाक् ॥ पाकशासनः इन्द्रः। उदपादि उत्पन्नम् ॥ १ ॥ जटिलीकृतं कर्बुरीकृतम् । व्यभाव्यत परिज्ञातम् -|| २ ।। प्रकाशिताकाशरन्ध्रः । दृश्या जिह्वा यस्य ॥ ३ ।। धर्मवारणं छत्रम् ।। ४ ।। उपयो० साधनाङ्गेन । विधेयतां नियोज्यताम् ॥ ५॥ अनल्प० प्रचाभोगम् ॥ ६ ॥ अद्रिकुलिशादीनां भेदिनं विघटनम् । वजकपाटादीनां भेदः खलु दण्डादेवेति श्रुतिः। प्रायकर्मसु बाहुल्यकार्येषु । जितं गरिष्ठम् । शुभं सत्कर्म ॥ ७ ॥ चक्रिभयप्राप्तकम्पस्य । यस्य वासवेन्द्रस्यः ॥ ८॥ भास्करादीनां रुचामविषयीभवदन्धकारनिरसनक रणे। पटीयसी पटिष्ठा ॥ ९॥ प्रावृड्जलधरश्यामलनिकटस्थान्धकारविनाशकरणसमर्थः ॥ १०॥ छलात् व्याजात् । शैलराट् मेरुः ॥ ११ ॥ अप्रतिहतगमनम् । प्रचुरबलयुक्तम् । सिसंध ( ? )। मनोवेगम् । पर्यु० सेवाम् ॥ १२ ॥ अरिभिः सोढुमशक्यपराक्रमभयाण (न ) कः । शूरत्वभूमिः ॥ १३ ।। देवैः सुरैर्मानवैः ठकादि. विद्यायुक्तमनुष्यैः शुभेतरग्रहैर्दुष्टग्रहैः प्रापिता या आपत् तस्या अपहस्तने रोधकरणे समर्थः । देहवान् पुण्यपुञ्ज इव ॥ १४ ॥ कल्पः सदृशः । चणः प्रवीणः ॥ १५ ॥ गृहकार्यचतुरः । समुद्ययो अजायत । १६ ॥ प्रासिधन्
न्ति स्म । सत्कर्ममन्दिरस्य ॥ १७ ॥ उपतस्थिरे उदपादिषत ॥ १८ ॥ व्यशिश्रणत् अदात् ॥ १९ ॥ पिङ्गलो नाम निधिः ॥ २० ॥ ईप्सितं मनोऽभिलषितम् ॥ २१ ॥ रन्ध्रभेदतो भेर्यादयः, नद्धभेदतः मुरजादयः, निबिडभेदतः तन्त्र्यादयः । व्यतीर्यत सकलं वाद्यजातं दत्तम् ॥ २२ ॥ वस्त्रजातं वसनजातिम ॥ २३ ।। तपनीयं कनकम् ।। २४ ॥ शात्रवघ्नं शत्रुसंघातनाशकम् ।। २५ ॥ सोपधानं सोपवहम् । नैपू० नैसर्पनिधिदत्तम् ॥ २६ ॥ चित्ररत्न० किर्रररत्नज्योतिभिः ॥ २७ ॥[न] उदसिक्त न जगई। तादृशीं नवनिधिचतुर्दशरत्नलक्षणाम् ॥ २८॥ व्यधत्त अकरोत् ॥ २९ ॥ निरवर्तयत् निवर्तयामास ॥ ३० ॥ उच्छसत् उद्गतम् ।। ३१ ॥ केवलं परम, पुरजनस्त्रीणां मण्डलं प्रसन्नतासहितप्रस्फुरत्कनीनिक विशदवस्त्रतया सुन्दरं नाभवत् किन्तु ककुभामपि चक्रवालं सप्रसादसविकासोडुकं सिर्मलाकाशतया चेतोहरं समभवत् ।। ३२ ।। भूमिजः मध्यलोकोद्भवैः । दिविजैः ऊर्ध्व लोकोद्भवैश्च ।। ३३ ॥ उदितकेतु उद्गतध्वजम्, उ अहो खण्डितध्वजं च ।। ३४ ॥ द्यौः सुरलोकः ।। ३५॥ कोकिलध्वनिमजुनादाः ॥३७॥ वारिणि नियुक्तर्वारिकैः । वारिदैः मेघकूमारैः ॥ ३७॥ तेषां बन्धनां मनोरथपथं साभिप्रायमार्गमतिगच्छतीति तन्मनोरथा सा चासो श्रीश्च तया ॥ ३८ ॥ सहजदीधितिः स्वभावकान्तिः ॥ ३९ ॥ चन्द्रिका कौमुदीस्पृष्ट० ॥ ४० ।। सिंहासनस्थितम् । रभसेन वेगेन ॥ ४१ ॥ तत्त्वविषयम् ॥ ४२ ॥ त्वयि सति जगत् संशयविपर्ययाकुलं यतस्तिष्ठते (ति ) ॥ ४३ ।। निशम्य आकर्ण्य । अधरस्पन्दरहितं यथा भवति तथा ।। ४४ । सम्यगीक्षणविपर्ययो मिथ्यादर्शनं तत्र स्थितः । 'मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः' इति वचनात् ।। ४५ ।। लोहकान्तमणिः चुम्बकविशेषः ॥ ४६ ॥ खल्वाटश्रीफलवत् ॥ ४७ ॥ संचिनोति आदत्ते ॥ ४८ ।। कर्मबन्धनप्रतिकूलभूतया ॥ ४९ ॥ पापकार्यविरमणलक्षणम् ॥ ५० ॥ संगतं मिलितं, परस्परसापेक्षमित्यर्थः ॥ ५१ ॥ उपार्जितक्षपकम् ॥ ५२ ।। अबुधैः अज्ञानिभिः सांख्यादिभिः । अनुष्ठितैः उपयुक्तः ॥ ५३ ॥ त्वरयते
१. बहर: जहर । २. ब वधू । ३. जकान्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org