SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ४५४ चन्द्रप्रमचरितम् [१८, १६० क्षीणकर्मा ततो जीवः स्वदेहाकृतिमुद्वहन् । ऊर्ध्वं स्वभावतो याति वह्निज्वालाकलापवत् ।।१३०॥ लोकानप्राप्य तत्रासौ स्थिरतामवलम्बते । गतिहेतोरभावे न धर्मस्य परतो गतिः॥१३१॥ इति तत्त्वोपदेशेन प्रह्लाद्य सकलां सभाम् । भव्यपुण्यसमाकृष्टो व्यहरद्भगवान्भुवि ॥१३२।। निस्वेदत्वादिभिस्तस्य सहजैर्दशभिर्गुणः । बभासे भवनोद्भासि वपुर्भास्करभासुरम् ॥१३३।। व्यहरद्यत्र यत्रासौ तत्र तत्र सुभिक्षता । अजायत जनप्रीत्य योजनानां शतद्वये ॥१३४॥ कारणम् । भवेत् ॥१२९॥ क्षीणेति । ततः रत्नत्रयात् । क्षीणकर्मा क्षीणानि कर्माणि यस्य सः । जीवः आत्मा । स्वदेहाकृति स्वस्यात्मनो देहस्य शरीरस्याकृतिमाकारम् । उद्वहन् धरन् । स्वभावतः स्वरूपतः । वह्निज्वाला• कलापवत् वह्नरग्नेवालानामचिषां कलापवत समहवत । ऊर्वम् अग्रम् । याति । लट् ।।१३०॥ लोकेति । असा जीवः । लोकाग्रं जगदग्रम । प्राप्य गत्वा । तत्र लोकाग्रे। स्थिरता स्थिरत्वम् । अवलम्बते प्रवर्तते । गतिहेतोः गतेर्गमनस्य हेतोः कारणस्य । धर्मस्य धर्मास्तिकायस्य । अभावे विरहे सति । परः [परतः ] लोकानात् परतः । गतिः गमनं नास्ति ॥१३।। इतीति । इति उक्तप्रकारेण । तत्त्वोपदेशेन तत्त्वाना मुपदेशेन निरूपणेन । सकलां निखिलाम् । सभां समवसरणास्थानम् । प्रह्लाद्य संतोष्य । भव्यपुण्यसमाकृष्टः भव्यानां रत्नत्रयाविर्भनयोग्यानां पुण्यैः शुभकर्मभिराकृष्ट आहूतः। भगवान् स्वामी । भुवि भूमौ । व्यहरत् विहरति स्म ॥१३२॥ निस्वेदेति । तस्य चन्द्रप्रभजिनेशस्य । भास्करभासुरं भास्कर भासुरं देदीप्यमानम् । भवनोद्भासि भुवने लाके उद्भासि प्रकाशमानम् । वपुः शरीरम् । निःस्वेदत्-त्रादिभिः नि.स्वेदत्वमादि येषां तैः । सहजैः सहजातैः । दशभिः दशसंख्यैः । गुणः । बभासे बभौ । भा दीप्ती लिट् ॥१३३॥ व्यहरदिति । असो चन्द्रप्रभः । यत्र यत्र यस्मिन् यस्मिन् देशे। व्यहरत् विहरति स्म । तत्र तत्र तस्मिन् तस्मिन् देशे । योजनानाम् । शतद्वये शतयोयं तस्मिन् । सुभिक्षता सुभिक्षत्वम् । जनप्रीत्यै जनानां कारण है ॥१२९॥ कर्मोंका क्षय करनेवाला जीव अपने शरीरको आकृतिको धारण करता हुआ, उस स्थानसे, जहाँ कर्मोका क्षय किया है, अग्नि की ज्वालाकी भांति स्वभावसे ही ऊपर ( लोकके अग्रभागमें ) चला जाता है ॥१३०॥ लोकके अग्रभागमें जाकर वह मुक्त जीव वहीं पर स्थिर हो जाता है। धर्मद्रव्यके, जो गतिमें कारण हैं, अभाव होनेसे मुक्तजीव लोकाग्रसे ऊपर नहीं जा सकता ॥१३१।। इस प्रकार जीव आदि सात तत्त्वोंके उपदेशसे सारी सभाको प्रसन्न करके भगवान् चन्द्रप्रभने भव्य जीवोंके पुण्यसे आकृष्ट होकर भूमण्डलमें विहार किया ॥१३२।। उनका सूर्य सरीखा देदीप्यमान शरीर-परमौदारिक दिव्य देह सारे संसारको प्रकाशित कर रहा था, तथा पसीना न आना आदि जन्मसे उत्पन्न हुए दस अतिशयोंसे सुशोभित था ॥१३३।। भगवान् चन्द्रप्रभने जहाँ-जहाँ विहार किया वहाँ-वहां लोगोंकी प्रीतिके १. अ आ इ शतद्वयं । २. आमादिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy