SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ११७ -५,७] पञ्चमः सर्गः वितताखिलक्षितितलाः पृथवः शिखरावलीवलयलीढघनाः। समतां यदीयनिगमान्तगता धरणीधरैर्दधति धान्यचयाः॥४॥ विमलाकृतीरपरिदृष्टतला विहितादरैरपि गभीरतया। प्रबिभर्ति यः सकललोकमता' महतां मतीरिव महासरसीः॥५॥ जलदीर्घिका जनविगाह्यजलाः सरितः शकुन्तरवरम्यतटाः। विभाति यः परिदधत्परितः सरसोश्च पङ्कजवनाभरणाः ।।६।। खरशीतमारुतरजोरहिते समयोचितोष्णहिमवर्षसुखे। निवसन्कदाचिदपि नाकुलतां सकलर्तुषु व्रजति यत्र जनः ॥७॥ रुहिण्यः पद्मिन्यः ताः । वहति धरति । श्लेषोपमा ॥३।। विततेति। वितताखिलक्षितितलाः विततमखिलानां समस्तानां क्षितीनां तलं येषां (यः ) ते । पृथवः स्थूलाः । शिखरावलोवलयली ढघनाः शिखराणां शृङ्गाणामावल्याः समूहस्य वलय वृत्तै बढश्चुम्बितो घनो मेघो येषां (यैः) ते । यदोयनिगमान्तगताः यदोयानां निगमानां ग्रामाणामन्तं समीपं गताः। धान्यचयाः धान्यसमूहाः। घरणीघरैः पर्वतैः । समतां सादृश्यम् । दधति धरन्ति । उपमा ॥४।। विमलेति । विमलाकृतीः विमला आकृतिर्यासां ताः । गभीरतया गम्भीरत्वेन । विहितादरैरपि कृतप्रीतिभिरपि, गम्भीरत्वं द्रष्टुं प्रोतैरपीत्यर्थः । अपरिदृष्टतलाः अपरिदृष्टमपरिलोकितं तलं यासां ताः । सकललोकमताः सकलै निखिलैौंकैर्जनैः [मताः] संमताः । महतां सत्पुरुषाणाम् । मतीरिव बुद्धीरिव । महासरसी: महतीः सरसीः । यः देशः। बिति धरति । उपमा ।।५।। जलेति । जनविगाह्य जलाः जनैविगाह्यं प्रवेशयोग्यं जलं यासां ताः । जलदीधिकाः क्रीडासरोवरान् । शकुन्तरवरभ्यतटाः शकुन्तानां पक्षिणां रवैर्ध्वनिभी रम्यं तटं यासां ताः । सरितः नदीः । पङ्कजवनाभरणाः पङ्कजानां पद्मानां वनमेव षण्डमेवाभरणं यासां ताः । सरसीश्च सरांसि च । परितः समन्तात् । परिदधत् बिभ्रत् । यः अलकादेशः प्रविभाति विराजते । भा दीप्तौ लट् । रूपकम् ॥६॥ खरेति । खरशीतमारुतरजोरहिते खरेण तीक्ष्णेन शीतेन शैत्येन (शोतलेन ) मारुतेन वायुना रजसा रेणुना च रहिते व्यपगते । समयोचितोष्ण हिमवर्षसुखे समयस्य कालस्योचितेन योग्येनोष्णेन हिमेन वर्षेण वृष्टिना ( वृष्टया )। सुखे सुखभूते । यत्र देशे । निवसन् तिष्ठन् । जनः प्रजा। कदाचिदपि एकदापि ( कहिचिदपि ) । सकलतुषु सकलेषु ऋतुषु । आकुलतां एक सरीखी है ॥३॥ उस देशके आस-पासमें बहुतसे गाँव हैं। उनके बाहर खलिहानोंमें अनाजके ढेर लगे हुए हैं, जो पहाड़ों सरीखे हैं - पहाड़ोंकी तरह वे सारे भूतल में फैले हुए हैं, बड़े हैं और अपने शिखरोंसे मेघोंको छू रहे हैं ॥४॥ वहाँ बड़े-बड़े सरोवर हैं। वे महान् पुरुषोंकी बुद्धिके समान निर्मल हैं और गंभीरता ( गहराई ) के कारण, आदर करनेवाले भी उनकी थाह नहीं ले पाते । अतएव वे सर्वमान्य हैं। निर्मलता, अगाधता और लोकमान्यताके कारण महान् पुरुषोंकी बुद्धि और सरोवरोंमें अद्भुत साम्य है ॥५॥ वहाँ जलसे लबालब भरी हुई दीधिकाएं ( हौज ) हैं, जिनका जल स्नान करने योग्य है । वहाँ अनेक नदियाँ हैं, जिनके तट पक्षियोंके मधुर शब्दोंसे मनको लुभानेवाले हैं। वहाँ बहुतसे सरोवर हैं, जिनमें कमल लहलहा रहे हैं। इन दीपिकाओं, नदियों और सरोवरोंसे उस देशकी शोभामें चार चाँद लग गये हैं ॥६॥ वहाँ तेज लू, शीतलहरी और आँधी नहीं चलती। ऋतुओं ( ग्रीष्म, शीत और वर्षा ) के आनेपर उनके अनुकूल गर्मी सर्दी और बरसात होती है। फलतः वहाँके निवासी किसी भी १. म हता। २. अ जलवि। ३. आ प्रतावेव 'पमिन्यः' इति समुपलभ्यते । ४. श से शेखरा । ५. श स शेखरा । ६. आ श स कृतिः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy