________________
समन्तभद्र-स्तवन
गुणान्विता निर्मलवृत्तमौक्तिका नरोत्तमैः कण्ठविभूषणीकृता। न हारयष्टि: परमेव दुर्लभा समन्तभद्रादिभवा च भारती ॥
-आचार्य वीरनन्दि
[ २ ] समन्तभद्रादिकवीन्द्रभास्वतां स्फुरन्ति यत्रामलसूक्तिरश्मयः। व्रजन्ति खद्योतवदेव हास्यतां न तत्र किं ज्ञानलवोद्धता जनाः ।।
-शुभचन्द्राचार्य [ ३ ] समन्तभद्रादिमहाकवीश्वरा कुवादिविद्याजयलब्धकीर्तयः । सुतर्कशास्त्रामृतसारसागरा मयि प्रसीदन्तु कवित्वकांक्षिणि ।।
-वर्धमानसूरि [ ४ ] सरस्वती-स्वैरविहारभूमयः समन्तभद्रप्रमुखा मुनीश्वराः । जयन्ति वाग्वज्रनिपातपाटितप्रतीप-सिद्धान्तमहीध्रकोटयः ।।
--महाकवि बादीभसिंह
समन्तभद्रोऽजनि भद्रमूर्तिस्ततः प्रणेता जिनशासनस्य । यदीयवाग्वज्रकठोरपातश्चूर्णीचकार प्रतिवादिशैलान् ।।
-श्रवणबेलगोल, शिलालेख नं० १०८
[ ६ ] स्वामिनश्चरितं तस्य कस्य नो विस्मयावहम् । देवागमेन सर्वज्ञो येनाद्यापि प्रदर्श्यते ।।
-वादिराजसूरि [ ७ ] समन्तभद्रः संस्तुत्यः कस्य न स्यान्मुनीश्वरः । वाराणसीश्वरस्याग्रे निर्जिता येन विद्विषः ॥
-तिरुमकूडलुनरसीपुर, शिलालेख नं० ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.