SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ [ १९ ] वीतरागत्वसाधनपुरस्सरं सर्वज्ञो वीतराग एव महान् आप्तः मोक्षमार्गस्य प्रणेतेति व्यवस्थापितम् । ___ अस्याः सूत्ररूपाया आप्तमीमांसाया उपरि अष्टशतीनाम्नी व्याख्या वार्तिकभूता गभीरार्थाऽपि नातिविशदा, अष्टसहस्री च सुविशदाऽपि न सर्वगम्येति विभाव्य काशीहिन्दूविश्वविद्यालये प्राच्यविद्या-धर्मविज्ञानसंकायस्य दर्शनविभागे बौद्धदर्शनशास्त्रप्राध्यापक: पण्डितश्रीमदुदयचन्द्रो जैन: महता परिश्रमेण दुर्बोधमपि विषयं निजया प्राञ्जलया सरलया च शैल्या पाठकानां सुबोधं कुर्वन् राष्ट्रभाषायां तत्त्वदीपिकानाम्ना व्याख्याग्रन्थं रचितवान् इति महतः सन्तोषस्य विषयः । नूनमनेन कार्येण अस्य विदुषः न केवलं जैनदर्शनस्य प्रत्युत इतरभारतीयदर्शनानामपि मर्मज्ञता प्रस्फुटीभवति । अस्य विदुष उत्तरोत्तरामभिवृद्धि हृदयेनाभिकामयते काशीहिन्दूविश्वविद्यालयः वाराणसी १०-१-७५ केदारनाथत्रिपाठी दर्शनविभागाध्यक्षः प्राच्यविद्या-धर्मविज्ञानसंकाये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001836
Book TitleAptamimansa Tattvadipika
Original Sutra AuthorN/A
AuthorUdaychandra Jain
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy