________________
शुभाशंसनम्
आप्तवाक्यमागमप्रमाणं शब्दप्रमाणं वेत्यत्र प्रत्यक्षैकप्रमाणवादिचार्वाकमन्तरा सर्वेषां दार्शनिकानामस्त्यैकमत्यम् । किन्तु आप्तस्य वाक्यमाप्तवाक्यम् आप्तं वा वाक्यमाप्तवाक्यमिति विग्रहेऽस्ति मतभेदस्तेषामपि । तत्रेश्वराकर्तृकश्रुतिसाधारण्येन शब्दप्रमाणस्वरूपं वर्णयन्तो मीमांसकाः सांख्याश्च आप्तञ्च तद् वाक्यमाप्तवाक्यमिति कर्मधारयसमासमङ्गीकुर्वन्ति । श्रुतिमीश्वरकृतां मन्यमाना नैयायिकादयः षष्ठीतत्पुरुषसमासमाश्रित्य आप्तस्य वाक्यमाप्तवाक्यमिति समर्थयन्ति । जैनदार्शनिका अपि सर्वज्ञपुरुषमङ्गीकुर्वाणास्तत्र षष्ठीतत्पुरुषमेव स्वीकुर्वन्ति । अत एव वाचस्पतिमिश्रः "आप्तश्रुतिराप्तवचनं तु" इति सांख्यकारि कांशव्याख्यायामुक्तम् —- " आप्ता प्राप्ता युक्तेति यावत् । आप्ता चासौ श्रुति आप्तश्रुतिः । श्रुतिः वाक्यजनितं वाक्यार्थज्ञानम् । तच्च स्वतः प्रमाणम् । अपौरुषेयवेदवाक्यजनितत्वेन सकलदोषाशङ्काविनिर्मुक्तेर्युक्तं भवति । एवं वेदमूलस्मृतीतिहासपुराणवाक्यजनितमपि ज्ञानं प्रमाणं भवति ।" युक्तिदीपिकायामप्युक्तम् - " आप्ता नाम रागादिवियुक्तस्या गृह्यमाणकारणपरार्था व्याहृतिरिति " (सांख्यका० ५) अपौरुषेयवेदवादिमीमांसकानामपि सम्मत्तोऽयं पक्षः ।
नैयायिकास्तु वेदपौरुषेयत्ववादिन आप्तस्य वाक्यमिति विगृह्नाना ईश्वरादिव्यक्तिपरतयैवाप्तपदार्थं विवृण्वन्ति तदुक्तम् - "आप्तोपदेशः शब्दः” इति न्यायसूत्रभाष्ये - " आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा । साक्षात्करणमर्थस्याप्तिः, तया प्रवर्तते इत्याप्तः । ऋष्यार्यम्लेच्छानां समानं लक्षणम् । तथा च सर्वेषां व्यवहारा प्रवर्तन्त इति ।" ( अ० १ ० १ सू० ७ )
वाचस्पतिमिश्राश्च तत्रत्यतात्पर्यटीकायामाहु:-- " दर्शनाद् ऋषिः करतलामलकफलवत् साक्षात्कृतत्रैलोक्यवृत्तिप्रमेयमात्रः । आराद् यातः पातकेभ्य इत्यार्यो मध्यलोकः । म्लेच्छाः प्रसिद्धाः । म्लेच्छा अपि हि प्रतिपथमवस्थिताः पान्थानामपहृतसर्वस्वा मार्गाख्याने हेतुदर्शनशून्या भवन्त्याप्ता इति । भाष्ये 'चिख्यापयिषया प्रयुक्त' इत्यनेन वीतरागता उक्ता । प्रयुक्तः - उत्पादित प्रयत्नः, तेनालसत्वं निराक्रियते । 'उपदेष्टा'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org