________________
उपशमनाकरणम्
[ गाया-१५ . प्रस्तुते यदोपरितनस्थितिषु स्थितिघातरूपव्याघातभाव्यपवर्तना भवति, तदा घात्य मानखण्डवशेषासु स्थितिषु निर्व्याघातभाव्यपवर्तनाऽपि भवति, तन्निर्देशान्वनयाऽपवर्तन या. मिथतेर्घाताऽभावेन स्थितिमत्कर्मणो न्यूनताऽमावान कृतः।
अमत्कल्पनयाऽत्र निर्व्याघातभाव्यपवर्तनाया वक्तव्यता प्रदर्श्यते । अत्राऽऽवलिका द्वादशममयप्रमाणा बुद्धावारोप्यते, आवलिकासमयानां कृतयुग्मसंख्याकत्वात् ।
अथावलिकाया उपरितनम्य त्रयोदशस्य ममयस्य दलिकान्युदयसमयादारभ्य पश्चम समयेषु शिप्यन्ते समयाधिकावलिकात्रिभागस्य जघन्यनिक्षेपत्वादतीत्थापना षष्ठमम यादारभ्य द्वादशसमयपर्यन्ता सप्तममयप्रमाणा ममयोनालिकाद्वित्रिभागयोजघन्याऽतीत्थापनात्वात । तनश्चतुर्दशम्य समयस्य दलिकान्युदयसमयादारभ्य पश्चसमयेषु प्रक्षिप्यन्ते, अतीत्थापना षष्ठमम पादारभ्य त्रयोदशसमयपर्यन्ताऽष्टममयप्रमाणा पञ्चदशस्य समयस्य दलिकान्युदयसमयादार
भ्य पश्चममयेषु प्रक्षिप्यन्ते, अतीत्थापना पष्ठसमयादारभ्य चतुर्दशममयपर्यन्ता नवममयप्रमाणा। : पोडशममयस्य दलिकान्युदयममयादारभ्य पञ्चसमयेषु निक्षिप्यन्ते, अतीत्थापना पष्ठसमयादारभ्य पश्चदशसमयपर्यन्ता दशसमयप्रमाणा । सप्तदशसमयम्य दलिकान्युदयसमयादारभ्या पञ्चसमयेपु निक्षिप्यन्ते, अतीत्थापना षष्टममयादारभ्य षोडशसमयपर्यन्तेकादशसमयप्रमाणा । अष्टादशसमयम्य दलिकान्युदयसमयादारभ्य पश्चममयेषु निमिप्यन्ते, अतीत्थापना च षष्ठसमयादारभ्य मप्रदशममयपर्यन्ता द्वादशसमयप्रमाणा भवति, द्वादशसमयप्रमाणाऽऽवलिका पूर्णा भवति । अतः परं निक्षेपः प्रवर्धतेऽतीन्थापना तु तावन्येव । एकोनविंशतितपसमयम्य दलिकान्युदयसमयादारभ्य षष्ठसमयपर्यन्तेपु षट्सु समयेषु निक्षिप्यन्ते, अतीत्थापना सप्तमसमयादारभ्याऽष्टादशममयपर्यन्ता द्वादशसमयप्रमाणा। विंशतितमसमयस्य दलिकान्युदयसमयादारभ्य सप्तमममयपर्यन्तेषु सप्तसु समयेषु निक्षिप्यन्ते, अतीत्थापनाऽष्टमसमयादारभ्यैकोनविंशतितमसमयपर्यन्ता द्वादशममयप्रमाणा एवमग्रेऽपि-अतीत्थापनाऽऽवलि कामात्रा निक्षेपस्थापाननां वृद्धिः ।
पश्यन्त पाठका यन्त्रकम्-४
ननु स्थितिघातस्य कालोऽन्तमुहूर्तप्रमाणोऽस्ति, तत्राऽन्तमुहूर्तसत्कद्विचरमसमयपर्यन्तमत्तास्थस्थितेन्यूनत्वं न दृश्यते । किन्तु यदा चरमसमये कण्डकप्रमाणायाः स्थितेः शेषाणि मर्वाणि दलान्युत्कीर्यन्ते, तदा स्थितिसत्कर्मणः कण्डकप्रमाणा स्थितिन्यू ना भवति । ततो द्विचरमसमयपर्यन्तं नियाघातभाव्यपवर्तना तथा चरमसमये व्याघातभाव्यपवर्तना प्रोच्यते, आहोम्विन्न ? इति चेद् , अत्रोच्यते-अन्तमुहर्तकालम्य हिचरमसमयपर्यन्तं निर्व्याघातभाव्यपवर्तना वक्तु शक्यते, किन्तु सामान्यनिर्व्याघातभाव्यपवर्तनातोऽत्र विशेषः । सामान्यत्वं करण कालरहितकालेऽपवर्तनात्वं करणकाले तु घात्यमानव्यतिरिक्तस्थितो प्रवर्तमानाऽपवर्तनात्वं च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org