________________
अपवर्तना ]
पूर्वकरणाधिकारः
[ ४५
इति सूत्रेणाऽधिकरणे 'घञ्' । तथा जघन्याऽतीत्थापनावलिकाया द्वौ त्रिमागौ समयोनौ भवति । यदोदयावलिका मत्कोपरितन द्वितीय समयस्थितिगतानि दलिकान्यपर्वत्यावलिकाया द्वौ त्रिभागौ वर्जयित्वाऽधस्तने समयाऽधिके तृतीये भागे निक्षिपति, तदाऽतीत्थापना प्रागुक्तप्रमाणा समयाsaका भवति, निक्षेपस्तु तावन्मात्र एव । यदोदयावलिकाया उपरितनात्तृतीय स्थितिस्थानकाद् दलिकान्यपर्वत्यन्ते, तदा प्रागुक्तमानाऽतीत्थापना द्विसमयाऽधिका भवति, आवलिकाया डौ त्रिभागौ समयाऽधिकाऽतीत्थापना भवतीत्यर्थः । निक्षेपस्तु तावानेव । एवमतीत्थापना प्रतिसमयं तावद् वर्धयितव्या यावदावलिका परिपूर्यते, निक्षेपस्तु तावन्मात्र एवाऽनुवर्तते, ततः परमतीत्थापना सर्वत्र तावन्मात्रैव प्रवर्तते, निक्षेपस्तु वर्धते ।
अयं भावः -- उदयावलिका सन्को परितनाऽऽवलिकायाः समयाधिकस्य त्रिभागस्योपरितनसमयस्य दलिकान्युदयसमयादारभ्य समयाऽधिकाऽऽवलिका तृतीयभागपर्यन्तरूपजघन्यनिक्षेपे प्रक्षिप्यन्तेऽतीत्थापना चाऽवलिकाप्रमाणा भवति । तदुपरितनसमयस्य दलिकान्यतीन्थापनारूपाऽऽवलिकामतिक्रम्य द्विसमयाऽधिकोदयावलिका सत्कतृतीये भागे निक्षिपति । एवमुत्तरोत्तरनिक्षेप एकसमयप्रमाणो वर्धयितव्यः । तृतीयाऽऽवलिकायाः प्रथमसमयस्य दलिकान्यतीत्थापनारूपामधस्तनद्वितीयाऽऽवलिकामतिक्रम्य प्रथमाऽऽवलिकायामर्थादुदयावलिकायां निचिप्यन्ते । एवं तृतीयाssवलिकाया अग्रेतनसमयस्य दलिकान्यतीत्थापनारूपामावलिकामतिक्रम्य समयाऽधिकोदयावलिकायां निक्षिप्यन्ते । एवमपर्व त्यमान चरम स्थितिस्थानकस्य दलिकान्यतीत्थापनारूपामावलिकामतिक्रम्य शेषसर्वस्थितिस्थानकेषु प्रक्षिप्यन्ते । तत एव निर्व्याघातेऽपवर्तनाऽधिकार उत्कृष्टनिक्षेपः समयाऽधिकाभ्यां द्वाभ्यामावलिकाभ्यां न्यूनोस्क्रुष्टस्थितिरुच्यते । तथाहि - कस्यचिदपि कर्मण उत्कृष्टस्थिति बद्ध्वा बन्धाऽऽवलिकाSन्तर्गतं कर्म सकलकरणाऽयोग्यमिति कृत्वा बन्धाऽऽवलिकायां व्यतिक्रान्तायां सत्यां तत्कर्मापर्वत्यते नार्वाक् । तत्र यदा सर्वोपरितनस्थितिस्थानमपवर्तयति, तदाऽतीत्थापनारूपाऽऽवलिकामात्रमधोऽवतीर्याऽधस्तनेषु सर्वेष्वपि स्थितिस्थानेषु निक्षिपति । तस्मादुत्कृष्टो निक्षेपोऽपर्व त्यमानस्थितिसमयरहिता बन्धावलिकातीत्थापनावलिकारहिता च सर्वाऽपि कर्मस्थितिः । ततो निर्व्याघातभाव्यपवर्तनायां समयाऽधिकेनाऽऽवलिकाद्वयेन न्यूनोत्कृष्टनिक्षेपो भवति । उक्तं पश्चसङग्रहेऽपवर्तनाऽधिकारे—
समयाहियइत्थवणा बंधालिया य मोत्तुं णिकखेवो । 5 कम्मठिइबन्धोदयवलिया मोत्तु ओबटूटे ॥१॥ छाया - समयाषिका मतिस्थापनां बंधावळिकांच मुक्त्वा निक्षेपः । कर्मस्थितिबंधोदया बलिकां मुक्त्वापवर्त्तयति ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org