________________
४२] उपशमनाकरणम्
[ गाथा-१५ स्थितिबन्धः पल्योपमसंख्येयभागहीनः पूर्वभूमिकायामपि भवति, तथैवाऽत्राप्युत्तरोत्तरस्थितिबन्धः पल्योपमसंख्येयभागहीनो भवति. तहर्यभिनवः कथमुच्यत इति चेद् , उच्यते--यद्यपि बन्धस्याऽयं क्रमः पूर्वभूमिकायामप्यासीत् , तथाप्यपूर्वाम्थतिघातादिप्ररूपणाऽवसरे पुनरभिधानं क्रियते, यतोऽस्य स्थितिबन्धस्याऽऽन्तमौहतिककालः स्थितिघातकालेन तुल्यो भवति, अतोऽपूर्वकरणे ते स्थितिबन्धाद्धाः स्थितिघाताद्धा संख्यया तुल्या भवन्ति, अपूर्वकरणे यावत्यः स्थितिघाताद्धा भवन्ति तावत्यः स्थितिबन्धाद्धा भवन्तीत्यर्थः । उक्तं च पश्चसङ्ग्रह उपशमना ऽवसरे “करणाइए अपुव्वो जो षन्धो सो न होई जा अपणो। बंधगडा सा तुल्लिगाउ ठिंडकंडगडाए" इति हेतोरभिनवस्थितिबन्धः पुनर्गभधीयते, अपूर्वकरणम्य प्रथमममये स्थिनिघातस्थितिबन्धो रसघातश्च युगादारभ्यन्ते, तथैकम्मिन स्थितिघाने स्थितिबन्धे च महस्राणि रसघाता भवन्ति, स्थितिघातस्थितिबन्धो युगपदारभ्यते युगपदेव निष्ठां यातः, अपूर्वकरणस्य प्रथमसमये यः स्थितिबन्धो भवति, तस्य संख्येयभागमात्रश्चरमसमये भवति, संख्येयगुणहीनो भवतीति यावत् ।
अधुना गुणश्रेणे; स्वरूपमाविश्चिकी राह--
गुणसेटी निक्खेवो समये समये असखगुणणाए । श्रद्धादुगाइरिनो सेसे सेसे य निक्वेवो ॥१५॥
गुणधेणिनिक्षेपः समये समयेऽसंख्यगुणनया ।
प्रद्धाद्विकातिरिक्त: शेष शेषे च निक्षेपः।। इति पदसंस्कार : सूत्रगाथाऽक्षरयोजना-गुणश्रेण्या निक्षेपः समये ममयेऽसंख्यगुणनया पूर्व पूर्व समयाऽपेक्ष्योत्तरोत्तरोत्तरसमये वृद्धात्मकया, सोऽपि च निक्षेपोऽद्धाद्विकाऽतिरिक्तोऽपूर्व करणाऽनिवृत्तिकरणकालाभ्यां मनागधिक कालमानम्तथाऽपूर्वकरणाऽनिवृत्तिकरणसमयेष्वनुभवतः क्रमशः क्षीयमाणेषु सत्सु गुणश्रेणिदलिकनिक्षेपः शेषे शेषे भवत्युपरि च न वर्धते ।
इदमुक्तं भवति, गुणेन गुणकारेण श्रेणिर्दलरचना गुगश्रेणिः तत्र केन गुणकारेण विधीयते ? इत्याह "समये समये असंखगुणणाए" त्ति, प्रतिभमयमसंख्यगुणनया, उक्तश्च नव्य शतकनामनि पशमकर्मग्रन्थे "गुणसेढी दलरयणाऽणुसमयमुदयादसंखगुणणाए"। ननु केभ्यः स्थितिस्थानेभ्यो दलिकान्यपकृष्याऽसंख्येयगुण नया गुणश्रेणि रचयतीत्याशङ्का परि'हागऽथ श्रीमन्मलयगिरिसूरीश्वरा आह-''यस्थितिकण्डकं घातयति तन्मध्याद् दलिकं गृहीत्वोदयसमयादारभ्यान्तमुहूर्तचरमसमयं यावत्मतिसमयमसख्यं यगुण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org