SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ रसघातः स्थितिबन्धश्च ] प्रपूर्वकरणाधिकारः [ ४१ अत्रानन्तराशिस्थानेऽसत्कल्पनया दश सङ्ख्या कल्पिता तस्मादनन्ततमभागो दशमो भागो ज्ञेयः । अपूर्वकरणस्य चरमसमयं यावदनेकसहस्राणि रसपाता भवन्ति, संख्यया तत्प्रमाणं च स्थितिघातप्रमाणादपूर्वकरणस्य प्रथमसमयादारभ्य चरमसमयपर्यन्तमने कसहस्रगुणं ज्ञेयम् । प्रथमसमयाऽपेक्षया चरमसमयेऽशुभप्रकृतीनामनुभागः सत्तायामनन्तगुणोहीनो भवति, यत एकस्मिन्नेव रसपाते परिसमाप्तेऽनुभागसत्कर्माऽनन्तगुणहीनं भवति । अपूर्णकरणेऽनेकसहस्राणि रसघाताः परिसामाता भवन्ति । शुभप्रकृतीनां स्थितिघातत्वेऽपि रसघातो न भवति । रसपाताद्धायां घातितस्पर्धकानां प्रमाणं दर्शयद्भिः कलिकालजन्तुहितार्षिभिः कषायमाभृतर्णिकारैल्पबहुत्वमुक्तम् , तदत्राऽभिधीयते तद्यथा- "तस्स पदेसगुणहाणिहाणंतरफदयाणि थोवाणि (८३) अइच्छावणाफदयाणि अणंतगुणाणि (८४) णिक्खेवफद्दयाणि अणंतगुणाणि,(८५) आगाइदफदयाणि अणंतगुणाणि" । भावार्थः पुनरयम्-(१) एकस्मिनादेशगुणहानिस्थानाऽन्तरेऽनुभागस्पर्द्धकानि स्तोकानि सत्तायां यान्यनुभागस्पर्द्धकानि, तेषु जघन्याऽनुभागम्पर्धकस्य प्रथमवर्गणायां प्रदेशा बहवः, ततो द्वितीयवर्गणायां विशेषहीना, एवं विशेषहीना क्रमेण प्रथमवर्गणागतप्रदेशतो यत्र प्रदेशा अर्द्धा भवन्ति, तद् द्विगुणहानिस्थानमुच्यते, जघन्यरसस्पर्द्धकस्य प्रथमवर्गणाया आरभ्य द्विगुणहीनप्रदेशविशिष्टाऽनुभागवर्गणापर्यन्तानि रसस्प कानि तेषां समुदाय एकप्रदेशगुणहानिस्थानाऽन्तरेऽनुभागस्पर्द्धकान्युच्यन्ते, तानि च स्तोकानि । (२) ततोऽपवर्तनायामतीत्थापनाऽनन्तगुणा । उपरितनरसस्पर्द्धकान्यपवर्त्य जघन्यतो यानि स्पर्धकान्यतिक्रम्याऽधो निक्षिपति तेषां रमम्पर्धकानां राशिरतीत्यापनोच्यते । सा च पूर्वतोऽनन्तगुणा । (३) ततो निक्षेपोऽनन्नगुणः । निक्षेपोऽनुभागखण्डस्याऽधस्तादतीत्थापनागतरसस्पर्द्ध कानि मुक्त्वापोऽवशिष्टमर्वाऽनुभागस्पर्द्धकप्रमाणरूपः, सच पूर्वतोऽनन्तगुणः । (४) आघातितानि स्पर्द्धकान्यनन्तगुणानि । एकस्मिन् रसपाते धातितानि रसस्पर्द्धकानि तान्याधातितानि स्पर्धकान्युच्यन्ते, तानि च पूर्वतोऽनन्तगुणानि भवन्ति । ___ अप स्थितिबन्धाडा भण्यने-अपूर्वकरणस्य प्रथमे समयेऽन्य एवाऽपूर्वोऽभिननः स्थिनिबन्धोऽभिनवाभ्यां स्थितिघानरपघाताभ्यां सार्धमारभ्यते, स च स्थितिबन्धः पूर्वतः पल्योपममंख्येयभागहीनो भवति । एवं प्रत्यन्तमुहूर्त पूर्वपूर्वस्थितिबन्धे पूणे सत्यन्यः स्थितिबन्धः पन्योपमसंख्येयमागहीनो भवति । ननु प्रत्यन्तमुहूर्त पूर्णस्थितिवन्धे पूर्णे सत्यन्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy