________________
गाथा ३-७ ]
उपशमनाकरणम
अथ व्यत्यस्यमानाः प्रकृतीगश्रित्य भङ्गा गण्यन्ते । अत्र कषाययगलवेदनीयनिद्रा. रूपाणां प्रकृतीनां व्यत्यासो भवति, नाऽन्यासाम् । अतस्ता एवाऽऽश्रिन्याऽत्र भङ्गा आनेयाः । यदुदयस्थानके यासु व्यत्यस्यमानप्रतिपक्षाग्नेकप्रकृतिषु यस्या अन्यतमायाः प्रकृतेरुदयो भवति, तदुदयस्थानके तत्प्रकृतिस्थाने तासां व्यत्यस्यमानानेकप्रकृतीनां सङ्ख्या स्थाप्या, इति नियमः । प्रतिपक्षत्वं चाऽत्र युगपदुदयाऽभाववत्वं द्रष्टव्यम् , तद्यथा प्रथमगुणस्थानके कषायचतुष्कऽन्यतमस्य कषायस्योदयो भवति, ततः कषायस्थाने व्यत्यस्यमानानेकप्रकृतिलक्षणक्रोधादिकषायचतुष्कस्य चतुःसंख्या स्थाप्या । एवं द्वयोयुगलयोरन्यतरस्य युगलम्योदयस्ततो युगलस्थाने द्विकं स्थाप्यम् । द्वयोर्वे वेदनीययोरन्यतरस्य वेदनीयस्योदयस्ततस्तत्स्थाने द्विसंख्या स्थाप्या । तदनन्तरं परस्परं गुणनं कर्तव्यम् । एवं प्रकारेण भङ्गाः प्राप्यन्ते ।
ननु द्वितीयोदयस्थानके भयजुगुप्सयोः परस्परं व्यत्यासात्पूर्वोक्तनियमेन ४४२४२ पोडशसंख्या भयजुगुप्मासत्कसंख्याभ्यां द्वाभ्यां गुणितव्येति चेत् , उच्यते, द्वितीयोदयस्थानके मयजुगुप्सयोः परस्परं व्यत्यासेऽपि प्रतिपक्षत्वाऽभावात् षोडशसंख्या द्वाभ्यां न गुण्यते । अत्र पृथक् पृथक् द्वौ विकल्पो कृती, एको जुगुप्साप्रक्षेपेण द्वितीयश्च भयप्रक्षेपेण । तृतीयस्तु विकल्पोऽन्यतरनिद्राप्रक्षेपेण क्रियते । सम्यक्त्वाऽभिमुखनारकस्योदयभङ्गाः । उदयस्थानके प्रकृतयः ५४ ५५ ५६ ५७
मङ्गाः १६ ६४ ८० ३२ = सङ्कलित भङ्गाः १६२ सम्यक्त्वाऽभिमुखस्य सुरस्योदये वर्तमानाः प्रकृतयःज्ञानावरणस्य पश्च दर्शनावरणस्य चतस्रोऽथवा निद्राद्विकादन्यतस्या निद्रया सह पञ्च अन्तरायस्य पश्च वेदनीयद्विकस्याऽन्यतरं वेदनीयमुच्चैगोत्रं देवायुमोहनीयम्य च कषाय चतुकं स्रीपुरुपयोग्यतरो वेदो युगलद्विकम्याऽन्यतरद्युगलं मिथ्यात्वमित्यष्टकं भयेन सह जुगुप्सया सह वा नवकम् , उभाभ्यां सह दशकमिति जघन्यतो नामकर्म वर्जशेषकर्मणां पश्चविंशतिरुत्कृष्टस्त्वष्टाविंशतिः प्रकृतयम्तथा सवपर्याप्तिभिः पर्याप्तवान्नामकरण एकोनत्रिंशत्प्रकृतयः । ताश्चेमाः--ध्रुवोदया द्वादश तथा देवगतिपञ्चेन्द्रियजातिक्रिय द्विकसमचतुरस्रसंस्थानसुखगन्यपघातपराघातोच्छवासत्रसचतुष्कसुम्बराः सुभगो दुर्भगो वाऽदेयोऽनादेयो वा यशःीत्ययशःकीन्योरन्यतरा चेति नामकर्मण एकोनत्रिंशम् ।
सम्यक्त्याभिमुखदेवम्य जघन्यपदे चतुष्पश्च शत्प्रकृत्यात्मकं चरममुदयस्थानकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org