SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ गाथा ३-६ ] (५) योगे च वर्तमानः - मनोयोगचतुष्ट्यवचनयोग चतुष्ट्यौदारिक काययोगवैक्रियकाययोगानामन्यतमे योगे वर्तमानः 'योगे य' इत्यत्र चकराद् वेदे कषाये च वर्तमान इति ज्ञेयम् । (६) वेदे वर्तमानः - अन्यतमे पुरुषवेदे स्त्रीवेदे नपुंसक वेदे च वर्तमानः (७) कषाये वर्तमानः - क्रोधादिचतुष्ट्येऽन्यतमे कषाये वर्तमानस्तथा प्रतिसमयं हीयमानकषायी प्रवर्धमानविशुद्ध प्रर्वतमानत्वात् (=) विसुडलेश्यायां वर्तमानः -- भावतो विशुद्धस्य लेश्यात्रयस्यान्यतमायां लेश्यायां वर्तमानो जघन्यपरिणामेन तेजोलेश्यायां मध्यमपरिणामेन पद्मलेश्यायामुत्कृष्टपरिणामेन शुकलेश्यायां वर्तमान इत्यर्थः । द्रव्यतस्तु लेश्यापटूके वर्तमान उपशमसम्यक्त्वमुत्पादयति, नरकगतौ द्रव्यतोऽशुभलेश्याया एव सद्भावात् । तथाSSयुर्वर्जानां सप्तानां कर्मणां स्थितिमन्तः सागरोपमकोटाकोटिप्रमाणामपि हीनां कुर्वन्नशुभानां कर्मणामनुभागं द्विस्थानकं सन्तमप्यनन्तगुणहीनं कुर्वन् शुभानां च कर्मणां चतुःस्थानकं सन्तमप्यनन्तगुणं कुर्वन्नास्ते । (६) प्रकृतिवन्ध - - (१) अथ मूलप्रकृतिबन्ध - 'बंधतो ध्रुवपगडी भवपाउग्गा' मूलप्रकृतय आयुष्यवर्जाः सप्तैव बध्यन्ते यत आयुर्वन्धो मध्यमपरिणाम एव भवति, अत्र तु अतीवविशुद्धयमान परिणामत्वादायुर्बन्ध नाSSरभते न करोतीत्यर्थः, नाप्यायुबन्धेऽप्रमत्त गुणस्थान कवत् पूर्वप्रवृत्त वर्तते । उपशमनाकरणम् Jain Education International उत्तरप्रकृतयो ध्रुवास्तु स्वमवप्रायोग्या बध्यन्ते तथाहि (२) अथोत्तरप्रकृतिबन्धः- ध्रुवप्रकृतयः पञ्चविधज्ञानावरणनवविधदर्शनावरणमिथ्यात्वकपाय षोडशभय जुगुसातै ज स कार्मणवर्णगन्धरसम्पर्शाऽगुरुलघूपघातनिर्माणाऽन्तराय पञ्चक्ररूपाः सप्तचत्वारिंशत्तथा स्वभवप्रायोग्याः प्रकृतीः परावर्तमानमध्यस्था आयुष्यवर्जाः शुभा एव बध्नाति । तथाहि - तिर्यङ् मनुष्यो वा ध्रुवबन्धिसप्तचत्वारिंशत्प्रकृतीस्तथा देवगतिप्रायोग्याः शुभाः प्रकृतीदेवद्विक क्रियद्विपञ्चेन्द्रियजाति-आद्य संस्थानपराघातोच्छ्वासप्रशस्त खगतित्र सदशकरूपा नामकर्मण एकोनविंशतिसंख्याकास्तथोच्चैर्गोत्रं सातवेदनीयं च मोहनीयस्य हास्यरतिपुरुषवेदरूपास्तिस्रः प्रकृतीध्नाति । इत्थं मनुष्यस्तिर्यङ् वा एकसप्ततिं प्रकृतीनाति सप्तम पृथ्वीनारकवर्जी नारको देवो वा ध्रुव चन्धिसप्तचत्वारिंशत्प्रकृतीस्तथा मनुष्यगतिप्रायोग्या मनुष्यद्विकपञ्चेन्द्रियजातिप्रथम संस्थानाऽऽद्य मंहननौदारिकद्विकपराघातोच्छ्वासप्रशस्नखगतित्र सदशकरूपा नामकर्मणो विंशतिसंख्याकाः प्रकृतीस्तथीच्चे गोत्रं सात वेदनीयं च मोहनीयस्य हास्यरतिपुरुषवेदरूपास्तिस्रः प्रकृतघ्नाति । इत्थं सप्तमपृथ्वीनारकवर्डो नारको देवो वा द्विसप्तति प्रकृतीर्वध्नाति । यदि सप्तम - पृथ्वीनारकः सादिमिध्यादृष्टिरनादिमिध्यादृष्टिर्वा प्रथममुपशमसम्यक्त्वमुत्पादयति तदा [ ८ For Private & Personal Use Only 1 www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy