________________
२२४ ] उपशमनाकरणम्
[ गाथा ६१ स्थिता तथा मायात्रयस्य लोभत्रयस्य च गुणश्रेणिनिस्य गुणश्रेण्यायामतुल्याऽवस्थिता चोदयावलिकाया उपरि क्रियते ।
(३) शेषकर्मणां गलिताऽवशेषमात्री गुणश्रेणिः पूर्ववत्प्रवर्तते ।
(४) तदानीमेव संज्वलनमानस्य बन्ध आरभ्यतेऽनो मोहनीयस्य तिस्रः प्रकृतयो वध्यन्ते, तासां पतद्ग्रहत्वेन संज्वलनलोभमायामानेषु मानत्रिक मायात्रिकं लोभत्रिकं चाऽनानुपूर्ध्या सङ्क्रमयति, इदमुक्तं भवति- मानवेदकाऽद्धायाः प्रथमसमयादेव संज्वलनमाने मायात्रिक लोभत्रिकं मध्यममानद्विकं च संक्रमयति संज्वलनमायायां च मध्यममायाद्वयं लोभत्रिक मानत्रिकं च संक्रमयति संज्वलनलोभे च मायात्रिक मध्यमलोभद्वयं मानत्रिकं च संक्रमयति ।
(५) तदानीमेव संज्वलनत्रिकस्य स्थितिबन्धश्चातुर्मासिकः शेषकर्मणां च संख्येयवर्षसहस्रप्रमाणः । अक्तंच कषायप्राभतचूर्णी-"ताधे तिणहं संजलणाणं हिदिबंधो चत्तारि मासा पडिपुण्णा सेसाणं कम्माणं हिदिबंधो संखेजाणि वस्ससहस्साणि'। इति । उत्तरोत्तरस्थितिबन्धो मोहनीयस्य विशेषाधिकः, शेषकर्मयां तु संख्येयगुणः । एवं स्थितिबन्धसहस्रषु व्रजितेषु सत्सु मानवेदककालः समाप्तो भवति । तदानीं च मोहनीयस्य स्थितिवन्धोऽन्तम होनाऽष्टमासिकः शेषकर्मणां संख्येयवर्षसहस्रमितः, उक्तं च कषायप्राभृतचूर्णी-एवं ट्टिदिबंधसहस्साणि बहूणि गंतूण माणस्स चरिमसमयवेदगरस तिण्हं संजलणाणं हिदिबंधो अह्रमासा अंतोमुहुत्तणा सेसाणं कम्माणं हिदिबंधो संखेजाणि घस्स. सहस्साणि ।" इति ।
क्रोधवेदकाऽद्धामानवेदककाले समाप्तेऽनन्तरसमय इमे पदार्थाः प्रवर्तन्ते-- (१) क्रोधत्रिकमनुपशान्तं भवति । (२) क्रोधस्य प्रथमस्थितिं कुर्वन्नप्यन्तरस्यापुरणात् प्रथमस्थितित्वेन व्यवहीयते, तेन
ॐ टिप्पणी-पत्रान्तरमेवं पूर यतीति दशितजयधवला-"शंपहि जाधे एवंविहो गुणसेढीणिक्खेवो जा ताध चेव वारसण्हं एदेसि कम्माणमतरमावुरिज्जदि त्ति घेत्तव्वं । जस्स कसायस्स उदएण सेदि. मारुढो तम्मिकसाये ओकड्डिदे एवंविहो गुणसेडिणिक्खेवो अंतरापरणं च होदि ति णिच्छेयव्यो। एदो तदो एत्थ मंतरावूरणविहाणं किंचि वत्तइस्सामो । तं जहा-बारसविहं कसायमोकडुियूण तक्काले गुणसेडिणिक्खेवं करेमाणो कोहसंजलणस्स ताव उदए थोवं पदेसगं देदि । तत्तो असंखे. ज्जगुणं जाव गाणावरणादिकम्माणं पुवणि क्खित्तगुणसे डिसीसयं पत्तोत्ति । पुणो तदरणंतरो. वरिमअंतरसमयम्मि एकवारमसखेज्जगुणहीणं णिक्खिदि तदो विसेसहीणं कादुरण संछुदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org