________________
अश्वकणकरणाद्धा] चारित्रमोहोपशमनाधिकारः
[१९१ दलिकं निझिपति । उक्तं च कर्मप्रकृतिचूर्णी "लोभवेयगडाए येतिभागमेत्ता लोभस्स पढमहितिं करेति" तथैव कषायप्राभूतचूर्णावपि "ताधे चेव लोभसंजलणमोकड़ियूण लोभस्स पढमहिदि करेदि एत्तो पाए जा लोभवेदगडा होदि। तिस्से लोभवेदगडाए बेत्तिभागा । पत्तियमेत्ती लोभस्स पढमहिदी कदा।" इति । तत्राऽपि प्रथमस्त्रिभागोऽश्वकर्ण करणाद्धासंज्ञः, द्वितीयरित्रभागः किट्टिकरणाद्धासंज्ञः ।
(२) तदानी च संज्वलनलोभस्य स्थितिबन्धोऽन्तमुहूर्तन्यूनकमासिकः शेषकर्मणां च संख्येयमहसूवार्षिकः ।
(३) तम्मादेव ममयादारभ्य संज्वलनमायाया अवशिष्टावलिको संज्वलनलोभे स्तिबुकसक्रमेण संक्रमय्य वेदयति ।
( ज्वलनलोभोद पप्रथमसमयात्प्रमति समयोनावलिकाद्विकेन संज्वलनमायायावद्धं दलिकं तावता कालेन संक्रमयति सर्वात्मना चोपशमयति ।
(५) तदानीमेवाऽप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्वलनलोभत्रिकं युगपदुपशमयितु. मारभते उपशमनाविधिश्च प्राग्वदवधेयः ।
(६) प्रश्वकर्णकरणाद्धा - मंज्वलनलोभम्य प्रथमस्थितेः प्रथमसमयादारभ्याऽश्वकर्णकरणाऽद्धायां वर्तमान सन पूर्वस्पधकेभ्यः प्रतिसमयं पालिकं गृहीत्वा तस्याऽत्यन्तनीरसतामापाद्याऽपूर्वस्पर्धकानि करोति । इदमत्र हृदयम् -इदं तावदनन्तानन्तपरमाणुनिष्पन्नान् स्कन्धान जीवः कर्मतया गृह्णाति, तकस्मि परमाणो यः सर्वजघन्यो रसः, मोऽपि सर्वजीवानन्तगुणान रसाऽविभागान धारयति । तदुपेतकामणपरमारणूनां समुदायः प्रथमा वर्गणा, ततः क्रमेणैकोत्तररसविभागवृद्धया सिद्धानन्त भागाऽभव्याऽनन्तगुणा वर्गणा वाच्याः, तावतीनां वर्गणानां समुदायः म्पर्धकमुच्यते । इन ऊध्वमेकोत्तावृद्धया वर्धमानरसेन युक्तः कार्मणपरमाणुनं लभ्यते । किन्तु मरजीवाऽनन्तगुण रेव रसाविभागेरधिकः,ततः प्राक्तनक्रमेण द्वितीयस्पर्धकमारभ्यते, एवं तावदाच्यानि, यावदनन्तानि स्पर्धकानि । एतेभ्यः सत्तागतस्पर्धकेभ्य इदानीं प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशात्तत्कालबध्यमानसंज्वलनलोभस्पर्धकवदनन्तगुणहीनरसाः कृत्वा पूर्ववत्स्पर्धकानि कंगेति । आसमारं हि परिभ्र-ता न कदाचनाऽपि बन्धमाश्रित्यैतादृशानि स्पर्धकानि कृतानीत्यपूर्वाण्युच्यन्त इति । नन एवमपूर्व स्पर्धकानि कुर्वतः संख्येयेषु स्थितिबन्धेषु गतेषु सत्स्वश्वकर्णकः रणाऽद्ध। परिसमाप्ता भवति, उक्तं च कर्मप्रकृतिचूर्णी-"अस्संकनकरणद्धाते वहमाणो लोभसंजलणाए पुत्व फड्डगेहितो समते समते अपुवाणि फड्डगाणि करेति अपुवाणि नाम बंधरूपेण व उप्पातियाणि ण होति, विसोहिए अन्नहा फहगस्स रुपेणेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org