SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ स्त्रीवेदोपशना] अल्पबहुवाधिकारः [ १३ (१) मोहनीयस्य स्थितिबन्धः सर्वाऽल्पः । (२) ततो ज्ञानावरणाऽन्तरायाण संख्येयगुणः । (३) ततोऽपि नामगोत्रयोरसंख्येयगुणः । (४) ततो वेदनीयस्य विशेषाधिकः । उक्तं च कषायप्राभूतचूणौँ-"तम्मि समए सव्वकम्माणभप्पाबहुअं। तं जहा- मोहणीयस्स सव्वत्थोवो हिदिबंधोणाणावरणदंसणावरणअंतराध्याणं द्विदिवंधो संखेजगुणो, जामगोदाणं हिदिबंधो असं. खेजगुणो, वेदणीयस्स हिदिवंधो विसेसाहिओ।" इति । "एत्तो" इत्यादि, इतश्च संख्येयवर्षप्रमाणस्थितिबन्धादारभ्याऽन्योन्यो घातिकर्मणां स्थितिबन्धः पूर्वपूर्वस्मात्संख्येयगुणहीनो भवति । अस्मादेव च संख्येयवर्षप्रमाणघातिकर्मप्रथमस्थितिबन्धादारभ्य देशघातिनां केवलज्ञानावरणकेवलदर्शन'रण वर्जानां ज्ञानावरणदर्शनावरणाऽन्तरायाणाम् "उदकराजिम्" उदकराजिसमान पायकृतं रसं बध्नाति, एकस्थानकमनुभागं वघ्नातीत्यर्थः । उक्तं च कर्मप्रकृतिचूर्णी-- "जं समयं संखेनवरिसगो हितिबंधोतं समयं चेव केवलणाणावरणकेवलदसणावरणवज्जाणं देसघाईणं पगतीण एगट्ठापि गो बंधो पयति" इति । तथैव कषायप्राभृतचूर्णावप्युक्तम्- "जाधे संग्वेज्जवस्सहिदिओ बंधो तस्समए चेव एदासिं तिण्हं मूलपयडोणं केवलणाणावरणदंसणावरणवज्जाओ सेसाओ जाओ उत्तरपयडीओ तासिमेगट्ठाणिओ बंधो।"इति । तत एवंक्रमेण संख्येयेषु स्थितिघातसहस्रषु गतेषु सत्सु स्त्रीवेदः सर्वथोपशान्तो भवति । स्त्रीवेद उपशान्ते हास्यपटकं पुरुषवेदं चोपशमयतीति तदुपशमनाविधिमाविश्चिकीषु राह ता मत्तगह एवं संखतमे संखवासितो दोगहं । बिइयो पुण टिइबंधो सव्वेसि संखवासाणि ॥ ४६॥ ततः सप्तानामेव सख्येयतमे संख्येयवार्षिको द्वयोः । द्वितोय :पुनःस्थितिबन्ध सर्वेषां संख्येयवर्षाणि ॥ ४६ ॥ इति पदसंस्कारः "ता" इत्यादि, स्त्रीवेद उपशान्ते ततः शेषान सप्तनोकपायानुपशमयितुमारभते, तदुपशमनारम्पप्रथमसमयेऽभिनवस्थितिबन्धः स्थितिघातो रसघातश्च प्रारभ्यन्ते संख्यातेषु स्थितिघातसहस्रषु बजिनेषु मन्सु एवं" इत्यादि. नपुसकवेदोक्तप्रकारेण सप्तानां नोकषायाणामुपशमनाऽद्धायास्संख्येयतमे भागे गते सति ''दोण्हं"त्ति द्वयोर्नामगोत्रयोः संख्येयवार्षिक: स्थितिबन्धो भवति वेदनीयस्य पुनरसंख्येयवार्षिक एव, तस्मिन स्थितिबन्धे पूर्णे सत्यन्यो द्वितीयस्थितिवन्धो वेदनीयस्याऽपि संख्येयवार्षिको भवति । तथा च सति सर्वेषामपि कर्मणामितः प्रभति संख्येयवर्षप्रमाण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy