SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ अन्तरकरणकृते सप्तपदार्थाः ] चारित्रमोहनीयोपशमनाधिकारः [१७६ क्रमो नाम क्रमपुर्वकः सङ्क्रमः ।इतः प्राक् संज्वलनक्रोधस्य दलिक पुरुषवेदसंज्वलनमानमायालोमेषु सङ्क्रमयति स्म । अतः प्रभृति संज्वलनक्रोधम्य दलिकं मानादिषु सङ्क्रमयति, पुरुषवेदे तु न सक्रमयति । एवं पुरुषवेदस्य दलिक संज्वलनक्रोधादिषु, संज्वलनमानस्य दलिक संज्वलनमायादिषु संक्रमयति, न तु पुरुषवेदे वा सञ्जवलनक्रोधेवा । तथा संज्वलनमायाया दलिक संज्वलनलोमे सक्रमयति, न पुरुषवेदसञ्जवलनक्रोधमानेषु । अयं सङ्क्रमः क्रमपूर्वक उच्यते । (२) संज्वलनलोभस्य सङ्क्रमाऽभावः-अन्तरकरणे कृते सत्यनन्तरसमयात्प्रभृति मोहनीयस्याऽऽनुपूर्वीसङ्क्रमभवनात्संज्वलनलोभस्याऽन्यत्र सङ्क्रमो भवितु नाऽर्हति इति कृत्वा लोमस्य सङ्कमाऽभाव उक्तः ।। (३) षडावलिकायां व्यतिक्रान्तायामुदीरणा। मोहनीयसत्काऽमोहनीयसत्का याः प्रकृतयो बध्यन्ते, तासां षण्णामावलि कानां मध्य उदीरणा न भवति, किन्तु षट्स्वावलिकास्वतिक्रान्तासु । अधुनातननूतनबन्धस्य तथाविधम्वभावसंभवात्, इतः पूर्व तु बद्धं कर्म बन्धावलिकायां व्यतिक्रान्तायां प्राक्तनोदयसत्कर्माऽनुविद्धामुदीरणायामायाति स्म । (४) मोहनीस्यैकस्थानको रसबन्धोऽभिनवो भवति, अतः प्राग्मोहनीयस्याऽनुभागबन्धो द्विस्थानको भवति स्म,इतः प्रभृति विशुद्धवृद्धत्वादेकस्थानको रसबन्धो भवति । (५) मोहस्य संख्येयवार्षिकः स्थितिबन्धः, इतः पूर्वमन्तरकरण क्रियासमाप्तिपर्यन्तं सप्तानां कर्मणां स्थितिबन्धोऽसंख्येयवर्षप्रमाणो भवति स्म। संप्रति मोहनीयस्य संख्यातवर्षप्रमाणः स्थितिबन्धो भवति, सोऽपि पूर्वपूर्वत उत्तरोत्तरस्थितिबन्धः संख्येयगुणहीनो भवति । शेषकर्मणां च पूर्वपूर्वत उत्तरोत्तरस्थितिबन्धोऽसंख्येयगुणहीनो भवति । (६) उदयाऽसंप्राप्तोदय उदीरणाख्यः, सोऽपि संख्येयवार्षिको मोहस्य । यद्यपि मोहनीयस्य स्थितिसत्कर्माऽसंख्येयवर्षप्रमाणं भवति, तथाऽप्युदीरणासंख्यातवार्षिका भवति तत्कारणं त्विदं ज्ञा. यते, मोहनीयकर्मणः स्थितिबन्धस्य संख्यातवर्षप्रमणत्वादसंख्ये यसमय प्रबद्धोदीरणायाश्च विद्यमानत्वाद् बन्धतः समयादिहीनाः संख्येयवर्षेप्रमाणाः सत्तागतस्थितय उदीरणामायान्तीति संख्येयवार्षिकोदीरणा सम्यग्युज्यते उपरितनस्थितय उदीरणायां नागच्छन्ति तथास्वभावादिति संभावयामहे। कोहसंजलणदुविहमाणपदेसग्गं पि माणसंजलणे णियमा संछुहदि, गाण्णहम्मि वि कम्हि विमाणसंज़लणविहमायापदेसग्गं च णियमा मायासंजलणे णिक्खिवदि मायासंजलणदुविहलोहपदेसग्गं च रिणयमा लोहसंजलणे संछुहदि त्ति एसो माणुपुग्वीसंकमो जाम।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy