________________
१२२ ] उपशमनाकरणम
[ गाथा ३२ भवति-सम्मत्तसम्मामिच्छतेसंछुढमित्यर्थः । समत्तसम्ममिच्छत्ताणं पलिओवमस्स असंखेज्जतिभागो सेसो मिच्छत्ते पढमसमयसंकते णिहिए संमत्ते सम्मामिच्छत्ताणं असंखेज्जाभागा आघाइता भवन्ति, संकामिता भवंति ज वुत्तं होति ।। ” इति । - पूज्यमलयगिरिपादमिथ्यात्वसत्काऽऽवलिकामाने शेपे सम्यक्त्वमिश्रयोः स्थितिसत्वं पल्योपमाऽसंख्येयभागं दर्शितम् । तथा च तद्ग्रन्थः-'दाना च सम्यक्त्वसम्यक्त्वमिथ्या. त्वयोर्दलिक पल्पोपमाऽसंख्येयभागमात्रमवतिष्ठते" इति । कपायप्राभृतचूर्णिकारमतेन पुनदर्शनत्रिकस्य स्थितिसत्कर्मणः संख्येयगुणहानिप्रारम्भतः संख्येयेषु स्थितिखण्डसहस्रपु गतेषु दापकृष्टिमंझंक दर्शनत्रिकस्य सत्कर्मस्थानं प्राप्यते । ननु किन्नान दुरापकृष्टिसंझं सत्तास्थानमिति
टिप्पणी उक्तं च "जयधवलायामपि-का दुरापकिट्री णाम बुच्च दे । जत्तो ठितिसंतकम्मावसेसादो संखेज्जे भागे घेतूण टिदिखंडए घादिज्जमाणे घादिदसेसं णियमा पलिदोदमस्स असंखेज्जादिभागपमाणं होदुण चिदि तं सव्वपच्छिमं पलिदो० संखे० भागपमाणं ठिदिसंतकम्मं दूराकिट्टि त्ति भण्गदे। कि कारणमेदस्स ठिदिविसेसस्स दूरावकि ट्टिसण्णा जादा त्ति चे ? पलिदोवर्माठदिसतकम्मादो सुदूर यरमोसरिय सम्वजहष्णपलिदोवमसंखेज्ज भागसरूवेणवट्ठाणादो" इति । पल्योपस्थितिकर्मणोऽधस्ताद्दूरतमप्रकृष्टत्वादतिकृशत्त्वाच्च दुराप्रकृष्टिरेषा स्थितिरित्युक्तं भवति अथवा दूर तरमपकृष्यतेऽस्याः स्थितिकण्डकमिति दूरापकृष्टिः। इतः प्रभृत्यसंख्येयान्भागा-गृहीत्वा स्थितिकण्डकघातमाचरतीत्यतो दूराकृष्टिरिति यावत् ।
ननु दूगपकृष्टिस्थानमेकमने कं वा भवतीति चेद् ? उच्यते, असंख्यातगुणितपल्योपमवर्गमूलमात्राणि दूरापकृष्टिस्थानानि भवन्ति, तेभ्य: किमप्येकमेव सर्वजीवानामेकादशं स्थानं भवति, अनिवृत्तिकरणे युगपत्प्रविष्टानां नानाजीवानां प्रथमखण्डेऽपगते स्थितिसत्कर्मण: समानत्वसंभवत् ।
पल्योपमं जघन्यपरिताऽसंख्येयरूपभागहारेण भक्त्वैक तत्र प्रक्षिप्यते, तत्स्थानं दुराप्रकृष्टित्वेन व्यपदिश्यते, इति केचित् । उक्तं च जयधवलायाम् “किमेसादुरावकिट्री एगविगप्पा पाहो अणेगवियप्पा ति? के वि भणति एयवियप्पा एसा, णिवियप्पपलिदोवमास संखेज्जदि भ गवियप्पपडिबद्धत्तादो। सो च णिव्वियव्वो पलिदोवमस्स संखेज्जदिभागो पलिदोवम जहण्णपरित्तासंखेज्जेण खंडिय तत्थ रूवाहिय एयखड मेत्तो, एत्तो एक्कस्स वि द्विदिविसेसस्स परिहाणीए पलिदोवमासंखेज्जभागवियप्पुप्पुत्तीप्रो. त्ति" इति।
जयधवलाकारास्त्वहः-पल्योपममुत्कृष्टसंख्यातेन विभज्य लब्धित एकैकरूपं न्यून न्यूनं तावद्वक्तव्यं यावत्पल्योपमं जघन्यपरित्ताऽसंख्यातेन खण्डयित्वा लब्धिर्न प्रप्यते पत्योपमं सर्वोत्कृष्टसंख्यातेन सर्वजघन्याऽसंख्यातेन च भक्त्वा द्वयोर्लब्ध्योरन्तरालगतानि स्थानानि दूरापकृष्टसंज्ञितानि भवन्तीति यावत् । तानि चाऽन्तरालगतस्थानानि सर्वोत्कृष्टसंख्यातगुणितजघन्याऽसंख्यातभक्तपल्योपममात्राणि भवन यायसंख्यातगुणितपल्योपमप्रथमवर्गमूलप्रमितानि भवन्ति, असत्कल्पनया पल्योपममेकादशसहस्रसमयमात्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org