________________
११. ]
उपशमनाकरणम्
[ गाथा-३१ भागान् विनाशयति, एवं स्थितिघाताः सहस्रशो व्रजन्ति । ततो दृगपकृष्टिसंज्ञं सत्तास्थानं विसंयोजकेन प्राप्यते । इतः प्रभृति प्रत्येकस्थितिघानेन स्थितिसत्कर्मणोऽसंख्येया बहु. भागा नाश्यन्ते, एकभागश्च सत्तायामवतिष्ठते । एषमनेकसहस्रस्थितिघातेषु गतेष्वेकाऽऽचलिकामात्रा स्थितिरवशिष्यते, यत उदयावलिका सकलकरणाऽयोग्या । शेषाऽनन्तानुबन्धिनः सर्वाऽपि स्थितिविनाश्यते, अवशिष्टाऽऽवलिकामपि स्तिबुकसङ्क्रमेण वेद्यमानकपाये सङ्क्रमय्य सत्कर्मतोऽनन्तानुवन्धिनः सर्वथा विनाशयति, प्रदेशोदयेनाऽनुभूय सवथा निलेपो भवतीत्यर्थः, ततो विसंयोजकेन मोहनीयस्य चतुर्विंशतिप्रकृत्यात्मकसत्तास्थानं प्राप्यते ! ततोऽनन्तरमन्तमुहूर्त यावच्छेषकर्मणां स्थितिघातादयो भवन्ति । ततः स्वभावस्थो भवति, स्वभावस्थे वर्तमानम्य स्थितिघातादयो न सन्ति । उक्तं व कर्मप्रकृतिचूणौं-"तता अणं. ताणपंधिषिसंजोतितो अन्तोमुहुत्तेण हितिघातासघायगुणसेढी एतेहि रहितो सभावत्यो होति" इति । एवं पञ्चस ग्रहोपशमनाऽधिकारेऽपि प्रतिपादितम्"नासेई तो पच्छा अंतमहत्ता सभावत्यो" (गाथा ३५) इति । नन्वत्राऽनिवृत्तिकरणं कदा समाप्तिमेतीति चेद् ? उच्यते, कर्मप्रकृतिटीकायाम-“अनिवृत्तिकरणे च प्रविष्टः सन् प्रागुक्तरुपेणोदलनासक्रमेन निरवशेषान्विनाशयति, किन्त्वधस्तादावलिकामानं मुञ्चति । तदपि च स्तिबुकसङ्क्रमेण वेद्यमानासु प्रकृतिषु संक्रमयति । ततोऽन्तमुहूर्तात्परतोऽनिवृत्तिकरणपर्यवसाने शेषकर्मणां स्थितिघातरसघातगुणश्रेणयो न भवन्ति किन्तु स्वभावस्थ एव भवति" इत्याहुत्तिकाराः श्रीमन्मलय. गिरिसूरीश्वरादयः ।
अत्र वयं महे-उपयक्तम्य शब्दार्थों द्वौ भवितुमर्हतः । अनिवृत्तिकरणाऽन्ते शेषकर्मणां स्थितिघातादीनां विच्छेदस्तत्स्थितिघातादयश्चाऽनन्तानुबन्धिन आवलिकानिःशेषतो. ऽन्तमुहर्ते व्यतिक्रान्ते व्यवच्छिद्यन्ते, तच्छब्देन सङ्क्रमणाऽऽवलिकानिशेषस्य परामर्शात , इत्येकोऽर्थः, द्वितीयस्तु यदि तच्छब्देनाऽऽवलिकाशेषः परामृश्येत, तह यनन्तानुबन्धिचतुष्कस्याऽऽवलिकाशेषतः प्रभत्यन्तमुहर्ते व्यतिक्रान्ते स्थितिघातादयो व्यवच्छिद्यन्त इति भावार्थो लभ्यत इति । नन्वर्थद्वयेऽपि प्रश्न उत्तिष्ठति, यदुपरिव्याख्यातः शेषकर्मणां स्थितिघातादीनां विच्छेदकालोऽनिवृत्तिकरणस्य पर्यवसानं कथं भवितुमर्हतीति । तथाहि-अनन्तानुबन्धिनः सर्वस्थितिमत्कर्मोद्वलनाऽनुविद्धगुणसङ्क्रमेण व्यनाङ्क्षीत् , नवरमावलिकामात्रा स्थितिरवशिष्टा
टि० + यतिस्तस्थानभवनात् स्थितिघातेन सत्तागतस्थित्यसंख्येय बहभागा धात्यन्ते तस्सत्तास्थानं दूरापकृष्टिसंज्ञमिति विशेषस्तु दर्शनत्रिकक्षपणाऽधिकारे व्याख्यास्यामः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org