________________
१०८ ] उपशमनाकरणम्
[ गाथा ३१ च गुणसंकमो वि" इति । तथैव पञ्चसङ्ग्रहोपशमनाऽधिकारे-"उवरिमगे करणदुगे दलिय गुणसंकमेण तेसिं तु नासेह'' इत्यादि, एवमेव मृलटीकायामपि केवलगुणसङक्रमः प्ररूपितस्तद्यथा-"उपरिमे करणद्विके निवृत्यनिवृत्तिकरणाख्ये दलिकं कर्मपरमाण्वा. स्मकं गुणसङक्रमेण प्रागभिहितेन तेषामनन्तानुपन्धिनां नाशयति शेषकषायत्वेन स्थापयति । इति । श्रीमन्मलयगिरिसूरीश्वरैस्तु पञ्चसङ्ग्रहस्य टोकायामुट्ठलनाऽनुविद्धगुणसङ्क्रम उक्तः, तथा च तद्ग्रन्थः "उपरितने करणद्विके पूर्वकरणोऽनिवृत्तिकरणाख्ये तेषामनन्तानुबन्धिनां दलिकं परमाण्वात्मकं गुणसङ्कमेणोद्वलनासक्रमानुविडेन नाशयति शेषकषायत्वेन स्थापयति" इति । किञ्च कमप्रकृतावपि यासु प्रकृतिद्वलना मङ्कमा प्रवर्तते, तास्वनन्तानुबन्धिचतुष्कमपि प्रख्यातम् , तथा च तद्ग्रन्थः- छत्तीसाए णियगे संजोयणदिहिजुअले य ।।६७।। इति एवं पञ्चसङ्ग्रहेऽपि अक्षराणि त्वेवम्-सम्माSणमिच्छमासे छत्तीसऽनियटि जा माया ।७४।" इति ।
अतो विसंयोजनायामुद्वलनासक्रमेणाऽपि भाव्यमेवाऽन्यत्राऽनन्तानुवन्धिनामुद्वलनासंभवात् । अत एव श्रीमन्मलयगिरिपादैरुद्वलनानुविद्धगुणसङ्क्रम उक्तः । केवलमुद्वलनामऊ मेण ह्याहारक सप्तकादीनां निर्मलीकरणवत्पल्योपमाऽसंख्येयतमभागरूपकालो न गच्छेत , किन्त्वनन्तानुवन्धिनोऽन्तमुहर्तकालेन सर्वथा विसंयोज्यन्त इत्येतद् विशेषतोऽवसेयम् , किचोद्चलनासक्रमेण तत्तत्खण्डाऽपेझया प्रतिममयमसंख्येयगुणकारेण दलिकान्युत्कीर्य प्रथमसमये परस्थाने स्तोकं स्वस्थाने च ततोऽसंख्येयगुणम् , द्वितीयादिसमयेषु स्वस्थानेऽसंख्येयगुणं परस्थाने च विशेषहीनक्रमेण दलं प्रक्षिपति, अत्र तु गुणसङ्क्रमस्याऽपि प्रवर्तमानत्वात्परस्थानेऽपि प्रतिसमयमसंख्ये यगुणकारेण दलनिक्षेपो भवति, इति युक्तियुक्त उद्वलनाऽनुविद्धगुणसङ्क्रमः । यद् वा प्रथमस्थितिखण्डाद् द्वितीयस्थितिखण्डं विशेषहीनमेवमुत्तरोत्तरखण्डानि विशेषहीनक्रमेण नेतव्यानि यावत्पल्योपमप्रमाणं स्थितिपत्कर्म भवतीति विशेषहीनक्रमेण स्थित्यपेक्षयोद्वलनासक्रमस्तथा प्रतिसमयमसंख्येयगुणकारेण परप्रकृतो दलिकनिक्षेपमाश्रित्य गुणसङ्क्रम इत्युद्वलनानुविद्धगुणसङ्क्रम उच्यते ।
उक्तश्च मिथ्यात्वादिकोशिकभास्करैरुपाघ्यायप्रवरैः-.'नवरमिहाऽपूर्वकरणे प्रथमसमयादेवारभ्य गुणसङ्क्रमो पि वक्तव्यः तथाहि-अपूर्वकरणस्य प्रथमसमये. ऽनन्तानुषन्धिनां दलिकं शेषकषायरूपपरप्रकृती स्नोकं संक्रमयति, ततो द्वितीय. समयेऽस ख्येयगुणम् , ततोऽपि तृतीयसमयेऽसख्यगुणम् , एवं तावद्वाच्यं यावदपूर्वकरणचरमसमयः । एष च गणसंक्रमः, एष च प्रथमस्थितिखण्डस्य स्थि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org