SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ उपशमसम्यक्त्वप्राप्तिः । अनिवृत्ति करणाधिकारः [ ५७ (पश्यन्तु पाठका यन्त्रकम् ४ ) मिच्छत्तुदए खीणे लहए सम्मत्तमोवसमियं सो । लंभेण जस्स लभई यायहियमलद्धपुत्वं जं ॥१८|| मिथ्यात्वोदये क्षीणे लभते सम्यक्त्वमौपशमिकं सः ।। लंभेन यस्य लभते प्रात्महितमलब्धपूर्वं यत् ॥१८॥ इति पदसंस्कारः॥ "मिच्छत्तदए" इत्यादि, मिथ्यात्वस्योदये क्षीणे सति स जीव उक्तन प्रकारेणोपश. मिकं सम्यक्त्वं लभते अश्नुते । "जस्स" इत्यादि, यस्य सम्यक्त्वस्य लाभेन यदात्महितमलब्धपूर्वम् अनादौ संसारसागरेऽप्राप्तपूर्वम् , संसारसागरस्य वडवाग्निकल्पम् , शिवहऱ्यासोपानम् , चिन्तमणिरत्नसदृशं जिनेन्द्रप्रणीततत्वप्रतिपत्यादिरूपम् , तल्लभते । यथा निदाघतौं मध्याह्नकाले निर्जलवने सहस्ररश्मेरातापेन पीड्यमानः पथिको जलचन्दनलेपादि प्राप्याऽपूर्वाऽऽनन्दमनुभवति, तथैव सम्यक्त्वलामे सति तत्पुरुषस्य महान् प्रमोदो जायते । उक्तं च सम्यक्त्वप्रकरणे-- संसारगिम्मतविओ तत्तो गोसीसचंदणरसोव्व । अइपरमनिव्वुइकर तस्संते लहइ सम्मत्तं ॥ तथैवाऽन्यत्रापिजात्यन्धस्य यथा पुसश्चक्षाभं शभोदये । सद्दर्शनं तथैवाऽस्य सम्यक्त्त्वे सति जायते ॥ आनन्दो जायतेऽत्यन्नं तात्त्विकोऽस्य महात्मनः । सद-याध्यपगमे ययाधितस्य सदौषधात् ॥ तथा चोक्तं समरादित्यकथायां प्रथम भवाधिकारे ★ सम्मत्तं उवसममाइएहि लक्खिज्जई उवाएहि । आयपरिणामरूवं षज्झेहि पसत्यजोगेहिं ॥१॥ एत्थं परिणामो खलु जीवस्स सहो उ होइ विन्नेओ। किं मलकलंकमुक्कं कणयं भुवि सामलं होइ ॥२॥ पयईइ कम्माणं वियाणि वा विवागअसुहत्ति । अवरडे वि ण कुप्पइ उवसमओ सव्वकालं पि ॥३।। * सम्यक्त्वमुपशमादिकैलक्ष्यते उपामः । प्रात्मपरिणामरूपं बाह्यः प्रशस्तयोगः ॥११॥ अत्र च परिणामः खलु जीवस्य शुभस्तु भवति विज्ञेयः। कि मलकलङ्कमुक्तं कनकं भुवि श्यामलं भवति ॥२॥ प्रकृतेश्च कर्मणां विज्ञाय वा विपाकमशुममिति । अपराद्धेऽपि न कुप्यत्युपशमतः सर्वकालमपि ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy