________________
४५६ जैनाचार्यों द्वारा विरचित ता० स्तोत्र श्रीशारदास्तवनम्। .
-जिनप्रभसूरि ॐ नमस्त्रिदशविन्दतक्रमे! सर्वविद्वज्जनपदमभृङिगके। बुद्धिमान्द्यकदलीदलीक्रियाशस्त्रि! तुभ्यमधिदेवते! गिराम् ।।१।। कुर्वते नभसि शोणशेचिषो भारति! क्रमनखांशवस्तव। नम्रनाकिमुकुटांशुमिश्रिता ऐन्द्रकार्मुकपरम्परामिव ।।२।। दन्तहीन्दुकमलश्रियो मुखं यैर्व्यलोकि तव देवि! सादरम् । ते विविक्तकवितानिकेतनं के न भारति! भवन्ति भूतले?।।३।। श्रीन्द्रमुख्यविबुधार्चितक्रमां ये श्रयन्ति भवतीं तरीमिव । ते जगज्जननि! जाड्यवारिधिं निस्तरन्ति तरसा रसास्पृशः ।।४।। द्रव्यभावतिमिरापनोदिनी तावकीनवदनेन्दुचन्द्रिकाम् । यस्य लोचनचकोरकद्वयी पीयते भुवि स एव पुण्यभाक् ।।५।। विभ्रदङ्गकमिदं त्वदर्पितस्नेहमन्थरदृशा तरङ्गितम्। वर्णमात्रवदनाक्षमोऽप्यहं स्वं कृतार्थमवयामि निश्चितम् ।।६।। मौक्तिकाक्षवलयाब्जकच्छपीपुस्तकाङ्कितकरोपशोभिते! | पद्मवासिनि! हिमोज्ज्वलाङ्गि वाग्वादिनि! प्रभव नो भवच्छिदे ।।७।। विश्वविश्वभुवनैकदीपिके! नेमुषां मुषितमोहविप्लवे! | भक्तिनिर्भरकवीन्द्रवन्दिते! तुभ्यमस्तु गिरिदेवते नमः ।।८।। उदारसारस्वतमन्त्रगर्भितं जिनप्रभाचार्यकृतं पठन्ति ये। वाग्देवतायाः स्फुटमेतदष्टकं स्फुरन्ति तेषां मधुरोज्वला गिरः ।।६।। श्रीचक्रेश्वरीस्तोत्रम्
-जिनदत्तसूरि श्रीचक्रेश्वरि चक्रचुम्बितकरे चञ्चच्चलत्कुण्डलालंकारे कृतमस्तकोरुमुकुटे ग्रैवेयकालंकृते ।। स्फारोदारभुजाग्रभूषणकरे सन्नूपुरैर्बन्धुरे मातर्मन्ति नयं स्वमिष्टविनयं त्रायस्व संत्रासतः ।।१।। श्रीचक्रेश्वरी चन्द्रमण्डलमिव ध्वस्तांधकारोत्करं भव्यप्राणिचकोरचुम्बितकरं संतापसंपद्धरं । सम्यग्दृष्टिसुखप्रदं सुविशदं कान्त्यास्पदं संपदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org