________________
४५४ जैनाचार्यों द्वारा विरचित ता० स्तोत्र सरस्वतीमन्त्रकल्पः
___ --महिल्लषेण आचार्य जगदीशं जिनं देवमभिवन्द्याभिशङ्करम् । वक्ष्ये सरस्वतीकल्पं समासायाल्पमेधसाम् ।।१।। अभयज्ञानमुद्राक्षमालापुस्तकधारिणी। त्रिनेत्रा पातु मां वाणी जटाबालेन्दुमण्डिता ।।२।। लब्धवाणीप्रसादेन मल्लिषेणेन सूरिणा। रच्यते भारतीकल्प: स्वल्पजाप्यफलप्रदः ।।३।। दक्षो जितेन्द्रियो मौनी देवताराधनोद्यमी । निर्भयो निर्मदो मन्त्री शास्त्रेऽस्मिन् स प्रशस्यते ।।४।। पुलिने निम्नगातीरे पर्वतारामसकुले। रम्यैकान्तप्रदेशे वा हर्ये कोलाहलोज्झिते।।५।। तत्र स्थित्वा कृतस्नानः प्रत्यूषे देवतार्चनम्। कुर्यात् पर्यङ्कयोगेन सर्वव्यापारवर्जितः ।।६।। तेजोवदद्वयस्याग्रे लिखेद् वाग्वादिनीपदम् । ततश्च पञ्च शून्यानि पञ्चसु स्थानकेष्वपि ।।७।। ॐ वद वद वाग्वादिनी हाँ हृदयाय नमः । ॐ वद वद वाग्वादिनी ही शिरसे नमः । ॐ वद वद वाग्वादिनी हूं शिखायै नमः । ॐ वद वद वाग्वादिनी हाँ कवचाय नमः । ॐ वद वद वाग्वादिनी हः अस्त्राय नमः । इति सकलीकरणं विधातव्यम् । रेफैज़लदिरात्मानं दग्धमग्निपुरस्थितम् । ध्यायेदमृतमन्त्रेण कृतस्नानस्तत: सुधीः ।।८।।
ॐ अमृते! अमृतोद्भवे! अमृतवर्षिणि! अमृतं श्रावय श्रावय सं सं हों ही कॅली क्ली ब्लू ब्लू द्रां द्रां द्रीं द्रीं दूं दूं द्रावय द्रावय स्वाहा। स्नानमन्त्रः । विनयमहा।
ॐ हीं पद्मयशसे योगपीठायः नमः। पीठस्थापनमन्त्रः । पट्टकेऽष्टदलाम्भोजं श्रीखण्डेन सुगन्धिना। जातिकास्वर्णलेखिन्या दूर्वादर्भेण वा लिखेत् ।।६।। ॐ कारपूर्वाणि नमोऽन्तगानि शरीरविन्यासकृताक्षराणि। प्रत्येकतोऽष्टौ च यथाक्रमेण देयानि तान्यष्टसु पत्रकेषु ।।१०।। ब्रह्महोमनमःशब्दं मध्येकर्णिकमालिखेत्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org