________________
४३६ जैनाचार्यों द्वारा विरचित ता० स्तोत्र ऐं ह्रीं श्री कँली हाँ वद वद वाग्वादिनी! भगवति सरस्वति! तुभ्यं नमः ।
इति सारस्वतं समाप्तम् । अत्र श्रीबप्पभट्टिसारस्वतकल्पोक्तमाद्यं बृहद् यन्त्रम्?, इदं च द्वितीयमपि यन्त्रं आम्नायान्तरे दन्दृश्यते। गुरुक्रमेण लब्ध्वा पूजनीयम् । सर्वे तत्त्वमिदं पाठतस्तु वाग्बीजं स्मरबीजवेष्टितमतो ज्योतिः कला तबहिश्चाष्टद्वादशषोडशद्विगुणितं द्वाष्टाब्जपत्रान्वितम् । तबीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे हंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् ।
इति मूलकाव्यं यन्त्रोद्धारसूचकम् । तथाॐ ऐं श्रीमनु साँ ततोऽपि च पुन: पॅली ववौ वाग्वादिनी एतस्मादपि हीं ततोऽपि च सरस्वत्यै नमोऽदः पदम्। अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटं बुद्धिज्ञानविचारसारसहितः स्याद्देव्यसौ साम्प्रतम् ।।
इति मूलमन्त्रोद्धारकाव्यं च। तथापि गुरुक्रमवशतः पाठान्तराणि दृश्यन्ते तत्र गुरुक्रम एव प्रमाणम् । भक्तांना हि सर्वेऽपि फलन्तीति। ॐ हीं असिआउसा नमः अहँ वाचिनि! सत्यवाचिनि! वाग्वादिनि वद वद मम वक्त्रे व्यक्तवाचया ही सत्यं ब्रूहि ब्रूहि सत्यं वद वद अस्खलितप्रचारं सदेवमनुजासुरसदसि ही अर्ह असिआउसा नमः स्वाहा। लक्षजापात् सिद्धिर्बप्पभट्टि सारस्वतम् । इति श्रीबप्पभट्टिसारस्वतकल्पः। वाग्भवं प्रथमं बीजं १ द्वितीयं कुसुमायुधम् २। तृतीयं जीवसंज्ञं च सिद्धसारस्वतं स्मृतम् ।। जीवसंज्ञं स्मरेद् गुह्ये वक्षसि (वक्षःस्थले) कुसुमायुधम् । शिरसि वाग्भवं बीजं शुक्लवर्णं स्मरेत् त्रयम् ।। त्रयम्-बीजत्रयमित्यर्थः । ॐ ह्रीं मण्डले आगच्छ आगच्छ स्वाहा। आह्वानम् । ॐ ह्रीं स्वस्थाने गच्छ गच्छ स्वाहा विसर्जनम् । ॐ अमृते! अमृतोद्भवे! अमृतमुखि! अमृतं स्रावय स्रावय ॐ हीं स्वाहा इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org