________________
४३४ जैनाचार्यों द्वारा विरचित ता० स्तोत्र भूमिशुद्धिमन्त्रः। ऐं विमले! विमलजलाय सर्वोदकैः स्नानं कुरु कुरु स्वाहा । स्नानमन्त्रः । मंतपयारो एसो हयारपुब्वि त्ति सोयमग्गम्मि।
सो च्चिय सयारपुवो विज्जानेओ कुले हाइ।। .........जीवं दक्षिणवाचयोगसमन्वितम् । सिद्धसारस्वतं बीजं सद्यो वै वचःकारः ।। शुचिप्रदेशे पटे पट्टे वा श्रीखण्डेन कर्पूरेण वा देव्या मूर्ति कमलासनस्थां देवीचरणसमीपे योजिकरां स्वमूर्तिं च आलिख्य देवीप्रतिमां चाग्रतो विन्यस्य देवीपूजापूर्वकं यथाशक्ति श्रीखण्डजातीकुसुमसुगन्धधूपफलनैवेद्यजलप्रदीपाक्षतादिभिः साधकः पूजयेत् । स च स्नानकं च स्नानं वा कृत्वा शुचिवेषः समुपविशेत् । ततश्च 'ॐ विमलाय विमलचित्ताय पां वां क्षां हीं स्वाहा' अनेन मन्त्रेण वार ३ शिरः प्रदेशात् चरणौ यावत् हस्ताभ्यां मन्त्रस्नानं कुर्यात् चन्द्रकिरणैर्दुग्धकर्पूरैर्वा आत्मानमभिषिच्यमानं चिन्तयेत्। 'ॐ भूरिसि! भूतधात्री भूमिशुद्धिं कुरु कुरु हुं फट् स्वाहा' अनेन मन्त्रेण वार ३ भूमिशुद्धिं कुर्यात् । ततः "ॐ ४ एहि एहि वार ४' अनेन मन्त्रेण आहानं कुर्यात्। द्रव्यतो भावतश्च देव्याहारनं स्थापना च कार्या । ततः क्षि पद्मासने, प नाभिप्रदेशे, ॐ हृदये, स्वा नासिकायाम्, हा शिरःप्रदेशे एभिर्मन्त्रपदैरारोहक्रमेण ततश्च हा ५ ललाटे, स्वा ८ नासिकायाम्, ॐ हृदये, प १३ नाभौ, क्षि ५ पदमासने एभिरेव मन्त्राक्षरैरात्मरक्षां कुर्यात्, चतुर्दिशं नखच्छोटिकां च शिखाबन्धं विदध्यात्। गुरूपदिष्टध्यानपूर्वकं मूलमन्त्रं जपेत् । मूलमन्त्रस्य सहस्र १२ करजापे ततः पुष्पजापे सहस्र पुष्पजापसत्कानि पुष्पाणि छायाशुष्काणि सञ्चूर्ण्य गुग्गुलेन सह चणकप्रमाणा गुटिकाः कृत्वा दुग्धघृतखण्डमध्यादाकृष्य ध्यानपूर्व मन्त्रपूर्वं च होमयेत् खदिराङ्गारैः पलाशसमिद्भिश्च वैश्वानरः प्रथमं ज्वलन् कार्यः । पूजानन्तरम्-ॐ यः विसर्जनमन्त्रः लक्षजापे दिननियमो नास्ति, तत्रापि पूर्वविधिना दशांशेन होमः कार्यः, करजापे लक्ष १, पुष्पजापे लक्ष १, होमसहस्र १० उत्तरक्रियायां करजाप लक्ष १ सिद्धिं यावत् साधकः साधयेत् । ब्रह्मचर्ये भूमिशयनं वृक्षशयनं वा। एकवारभोजनं आम्ललवणवर्जं च कुर्यात् ! स्वप्नेपि वीर्यच्युतौ मूलतो गच्छति, अतोऽनवरतं एलचीप्रभृतिवीर्यापहारकं भक्षयेत् । होमकुण्डं अगुल १६, विस्तारे अगुल १२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org