________________
४१६ जैन आचार्यों द्वारा विरचित ता० स्तोत्र श्री जिनसहस्रनामस्तोत्रम्
-जिनसेनाचार्य स्वयंभुवे नमस्तुभ्य-मुत्पाद्यात्मानमात्मनि । स्वात्मनैव तथोद्भूत-वृत्तयेऽचिन्त्यवृत्तये ।।१।। नमस्ते जगतां पत्ये, लक्ष्मीभत्रे नमोऽस्तु ते। विदांवर! नमस्तुभ्यं, नमस्ते वदतांवर! ।।२।। कामशत्रु हणं देव-मानमन्ति मनीषिणः । त्वामाऽऽनमत्सुरेण्मौलि–भा-मालाऽभ्यर्चितक्रमम्।।३।। ध्यान-द्रुघण-निभिन्न-घन-घाति-महातरुः । अनन्त-भव-सन्तान-जयादासी-दनन्तजित् ।।४।। त्रैलोक्य-निर्जयावाप्त-दुर्दप मतिदुर्जयम् । मृत्युराजं विजित्यासी-ज्जिन! मृत्युंजयो भवान् ।।५।। विधुताशेष-संसार-बन्धनो भव्यबान्धवः । त्रिपुराऽरिस्त्वमीशासि, जन्म-मृत्यु-जराऽन्तकृत ।।६।। त्रिकाल-विषयाऽशेष-तत्त्वभेदात् त्रिधोत्थितम् । केवलाख्यं दधच्चक्षु-स्त्रिनेत्रोऽसि त्वमीशितः ।।७।। त्वामन्धकाऽन्तकं प्राहु-र्मोहरान्धाऽसुर-मर्दनात् । अर्द्धं ते नाऽरयो यस्मा–दर्धनारीश्वरोऽस्यतः ।।८।। शिव- शिवपदाध्यासाद, दुरिताऽरि-हरो हरः । शङ्करः कृतशं लोके, शंभवस्त्वं भवन्सुखे।।६।। वृषभोऽसि जगज्ज्येष्ठः, पुरुः पुरुगुणोदयैः । नाभेयो नाभि-सम्भूते-रिक्ष्वाकु-कुल-नन्दनः ।।१०।। त्वमेकः पुरुषस्कन्ध-स्त्वं द्वे लोकस्य लोचने। त्वं त्रिधा बुद्ध-सन्मार्ग-स्त्रिज्ञस्त्रिज्ञान-धारकः ।।११।। चतुः शरण-माङ्गल्य-मूर्तिस्त्वं चतुरस्रधीः । पञ्च-ब्रह्ममयो देव!, पावनस्त्वं पुनीहि माम् ।।१२।। स्वर्गाऽवतरणे तुभ्यं, सद्योजातात्मने नमः । जन्माभिषेकवामाय, वामदेव! नमोऽस्तु ते।।१३।। सन्निष्क्रान्तावघोराय, परं प्रशममीयुषे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org