________________
__३८४ जैन आचार्यों द्वारा विरचित ता० स्तोत्र पूर्वोत्तरे शदिग वक्त्रः पद्मासन-सुखासनः । सौभाग्य-योगमुद्राभृत् कृताहानादिकक्रियः । ।२६ । । 'ॐ भूरिसि भूतधात्री भूमिशुद्धिं कुरु कुरु । स्वाहा इति कौकुमाम्भोभिश्चिन्त्यं तद्भूमिसेचनम् ।।२७।। 'ॐ ह्री विमले तीर्थ जलान्तरशुचिः शुचिः । भवामि स्वाहा' इति शान्तिदेवी मधुरितेक्षणा ।।२८।। कमण्डलु सुधाम्भो भिर्मा स्नापयतेऽथवा। षोडश विद्यादेव्यस्तीर्थाम्भोभिर्विचिन्त्यताम् ।।२६ ।। यद्वा चन्द्र सुधास्नातः क्षाराब्धौ योजनप्रमम् । पुण्डरीकं समारूढो द्रष्टुं तानर्हदादिमान् । ।३० ।। पाएहि रक्खपालो कणयमयंको हुयासणो जाणुं। उर-नाहि-हियय-पट्टी दो हत्था पास-मुह-सीसं।।३१।। धणपालो जयपालो अच्छुत्ता भयवई य वयरुट्टा। देवो हेरिणगवेसी वज्जधरो रक्खए सव्वं । ।३२ ।। "ॐ श्रीं द्राँ णाँ आँ ह्रीं ॐ अ सि आ उ सा क्षिप ॐ स्वाहा।। विहिताष्टाङ्ग दिग रक्षश्चन्द्रादिवर्णभानिमान् । विद्याक्षरान् स्मरन् शान्तिप्रमुखं तनुतेऽचिरात् ।।३३।। सम्यग् द्दशा महाव्रह्मचारिणां गुरुवक्त्रतः । गृहीता पठिता सिद्धा विद्या सर्वकरी मता।।३४ ।। व्याख्यानादौ विवादे . वा विहारे जनरञ्जने । सप्तकृत्वः स्मृता विद्या तत्तत्कार्यप्रसाधिका ।।३५ ।। जातीपुष्पयुतैः शालितन्दु लै : सत्फलैरपि। जप्ता दशांशहोमेन प्रीणिता कुरुते न किम्? ।।३६ ।। एतद् विद्यान्तरो द् भूत खाण्ड विद्या फलान्यथ। वक्ष्यामि जैनसिद्धान्तरहांसि स्मरणाकृते ।।३७।। 'सत्त्व' शब्दं विना विद्या गुरुपञ्चकनामभूः । द्वयष्टाक्षरात्महृत्पद्म गर्भे देवो निरञ्जनः ।।३८।। यद्वा-"अर्हत्-सिद्धाचार्योपाध्याय-सर्वसाधुभ्यो नमः" ।। हदम्बु जे इमां विद्या संस्कृतैः षोडशाक्षरैः । लभते द्विशर्ती ध्यायन् चतुर्थतपसः फलम् । ।३६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org